पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धोऽयम् । न च मन्त्रित्वे पुरोहितवज्जाति नियमः । तथा हि 'तैः सार्ध चिन्तयेत्' इत्युक्त्वा ततो ब्राह्मणेन सह चिन्त- येदिति । तेनायमर्थो, यद्यपि कथंचिच्छूद्रो न्यायलेशान् समधिंगच्छेत्तथापि राजाधिकरणे विवदतो मन्त्री निग्रहा- धिकृतो वा न किञ्चित् प्रब्रूयात् । पूर्व श्लोकार्धः प्रतिषेधशेष- तया व्याख्येयः । न हि जातिमात्रोपजीविनो वैदुप्यादि- गुणरहितस्य धर्मप्रवक्तृत्वनियोगः शक्यो वक्तुं तस्यैव रूपपरीक्षायां तस्माद्विपं भक्षय मा चास्य गृहे भुङ्क्था इतिवत्प्रतिषेधशेषभूतमिदमनुज्ञानं न पुनरनुज्ञानमेव । अत एव काममित्याह । कामशब्दप्रयोगे हि विधित्वं व्याहन्यते । अन्ये तु ब्रुवते, ब्राह्मणस्य प्रवक्तृत्वविधा नात् तदा नियोज्यो विद्वान् स्याद् ब्राह्मण इति क्षत्रिया- दयस्त्रयोऽपि वर्णा निषिद्धाः तत्रेह पुनः शूद्रप्रतिषेधो विद्वद्ब्राह्मणाभावे क्षत्रियवैश्ययोरभ्यनुज्ञानार्थं इति । शेषं समानम् । जातिमात्रमुपजीवतीति मात्रशब्दोऽवधारणे । त्राहाणजातिमेव केवलामुपाश्रित्य जीवति, नाध्ययनादीन् गुणविशेपान्निर्गुणत्वात् । शब्द: कुत्सायाम् | #मेधा. (२) केवलं ब्राह्मणजातिमात्रं यस्य, न ब्राह्मणी धर्मा नुसरणेन, स तु ब्राह्मणोऽस्य राज्ञः विद्वद्ब्राह्मणाऽभावे व्यवस्थापने धर्मस्य प्रवक्ताऽधिकृतः स्यात्, न कदा- चिच्छूद्र इति । ‘तदा नियुञ्जयाद्विद्वांसं ब्राह्मणम्' इत्यनेनैव सिद्धे शूद्रप्रतिषेधे, पुनर्वचनं क्षत्रियवैश्य नियोजनाच्छूद्रनियोजनस्य दुष्टत्वख्यापनार्थम् । गोरा. (३) जातिमात्रोपजीवी -- जात्या ब्राह्मणः संस्कार रहितः । स एव संस्कृतोऽनध्येता ब्राह्मणब्रुवः । न तु शुद्र इति ब्राह्मणब्रुवस्याप्यसंभवे क्षत्रियवैश्यावपि स्याता- मित्येतदर्थम् । Xमवि. (४) जातिमात्रोपजीवी न तु विद्यावृत्तोपजीवी | स्मृच.१७ (५) ब्राह्मणजातिमात्रं यस्य विद्यते न तु ब्राह्मण- कमीनुष्ठानं, वणिगादिवत्साक्ष्यादिद्वारेण स्फुटन्याया- सभा

  • व्यमा तात्पर्य मेधावत् । x भाच. मविवत् ।

ईयप्र. २५ व्यउ १६ व्यास इत्याह; विता. १३ ‘ब्रुवः (जो ध्रुवम् ) कथं (कदा); सेतु. ९४ कामं स्याद् (कायस्थो); प्रका.८; समु. ६. १ शात्. २ लोकार्थप्रतिषेधः शेषतया. व्य. का. ५ ३३ न्यायनिरूपणक्षमः | +मभु. (६) विद्वत्क्षत्रिय वैश्याऽसंभवे मनुराह -जाती- त्यादि । व्यनि. (७) जातिसंदेहेऽपि ब्राह्मणोऽहमिति ब्रवीतीति ब्राह्मणब्रुवः । +मच. नन्द. (८) कथंचन आपद्यपि । स्य 'शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पके गौरिव पश्यतः || (१) पूर्वविधिशेपोऽयमर्थवादः | यस्य राज्ञः शूद्रो धर्मविवेचनं धर्मनिर्णय करोति, तस्य सीदति नश्यति, राष्ट्रं प्रजाः, कर्दमे गौरिव ।

  • मेधा.

(२) तेन धर्मशास्त्रज्ञक्षत्रियवैश्ययोरलाभेऽपि शूद्रो वर्ज्यः । स्मृच.१७ (३) पश्यतो राज्ञः रक्षकस्यापीत्यनादरे पष्ठी । मच. यंद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् || (१) अयमपि पूर्ववदर्थवाद एच | प्रकरणाच्च शूद्र- भूयिष्ठता विवादनिर्णये तु शूद्रविषया द्रष्टव्या । यत्र शुद्रा भूयांसो विवाद निर्णयकारास्तद्राष्ट्रमाणु विनश्यति दुर्भिक्षव्याधिपीडाभिः । राष्ट्रनाशेच राष्ट्रपतेर्नाश इत्युक्तं भवति । नास्तिकाक्रान्तमिति दृष्टान्तः । यथा नास्तिकैः परलोकापवादिभिः लोकायतिकाद्यैः, आक्रान्तमधिष्ठित- मतश्चाद्विजम् । न हि नास्तिकानां ब्राह्मणादि भेदो यथार्थः, संकीर्णत्वात् । तदुक्तं वैद्यवणिग्व्यपदेशादिवत् ब्राह्मणादयः । यत्र वा धर्मसंकटे तु न द्विजाः प्रमाणी- क्रियन्ते तदद्विजम् | मेधा. + शेषं मेधातिथेरन्यपश्चवत् | मेनु. ममुवत्.

  • गोरा., ममु. मेधागतम् ।

पमा. (१) स्मृ. ८ |२१ ; व्यमा २८० शूद्र (राश) राशो (शूद्रो)। अप. २१२व्यमावत्; व्यक. १२ शुद्वस्तु (राजश्च) राक्षो (शूद्रो) टुं (ज्यं); स्मृच. १७ व्यमावत् ; रार. २३ व्यमावत् ; २९; स्मृसा. ८३.८४व्यमावत्, याज्ञवल्क्यः; व्यचि. ३ व्यमावत्, कात्यायनः; स्मृचि. ३; दवि. १४ (यस्य राष्ट्रे प्रकुरुते शूद्रो धर्मविवेचनम् ); सवि.६६ व्यमावत् ; उसो .५ व्यमावत्; व्यप्र.२५ व्यमावत्; व्यउ. १६ यस्य (यत्र) व्यमावत् ; विता.१३ ष्ट्र (ज्यं); प्रका. यावत् ; समु. ६ व्यमावत् (२) मस्मृ. ८२२; स्मृचि. ३; समु. ५.