पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा धीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्र- त्वमाशु गच्छति सान्वयः 11 (मस्मृ. २।१६८ ) वाकोवाक्येति । बाकोवाक्यमुक्तिप्रत्युक्तिरूपं तर्कशास्त्र मित्यर्थः । तथा च मनुः - 'यस्तर्कणानुसंधत्ते स धर्म वेद नेतरः' इति । इतिहासो भारतरामायणम् । पुराणं, यत्र सृष्टिस्थितिसंहारा उच्यन्ते तत्पुराणं ब्रह्माण्डादि । एतेष्वपि कुशलः निपुणः अर्थप्वेव, न पूर्वेध्विय ग्रन्थार्थयोः, क्रियापदान्तरारम्भात् । एवं च न केवलं वेद एव पठितव्यः अङ्गं च । तथा च स्मॄत्यन्तरम् - 'सागो वेदोऽध्येतव्य' इति । तदपेक्ष इति । तदपेनःवेदप्रसिद्धार्थानुवचनशीलः । तद्वृत्ति: तदभिहितकर्मानुष्ठानपरः । चत्वारिंशतेति । ते च वक्ष्यमाणाः गर्भाधानादयः, तैश्रोपेतः । वक्ष्यमाणत्वादेव सिद्धे संख्यानिर्देशः समुच्चयार्थो मा भूदिति, बहुवचनस्य प्रयोगात् त्रिप्रभृतिषु कृतार्थतेति । 'यस्य तु खलु संस्का- राणामेक देशोऽपि' इत्यत्रापिशब्दात्समुच्चयोऽपि गम्यत इति चेत् न, एक देशशब्दस्य संस्कारावयववाचित्वेनापि कृतार्थ- त्वप्रसङ्गात् । अत इह समुच्चयाभिधानात्तत्र एक देशग्रह- णेन कतिपयसंस्कारग्रहणसिद्धिः । त्रिविति । तानि साङ्गा- ध्ययनदानेज्यालक्षणानि । तेष्वभिरतः सततानुष्ठान- शील: । तद्द्वृत्तिरित्यनेनैवानुष्ठाने सिद्धे विशेषार्थः पुनरा रम्भः। विशेषश्च अतिशयेन तत्सेवनं, अदृष्टार्थत्वज्ञापनं वा । पस्विति । याजनाध्यापनप्रतिग्रहै: सह पड्भवन्ति । एपा- मध्यदृष्टार्थत्वज्ञापनार्थः पुनरारम्भः । सामेति । सामयिकाः स्मार्ता: उपनिबद्धाः । आचारिकाः शिशचरिता: पदार्थाः अनुपनिबद्धाः । तेषूभयविधेषु कर्मस्वभिविनीतः जात्वाऽनुष्ठानरतः । मभा. ( २ ) स एप इति वक्ष्यमाणनिर्देशः । लोकशब्देन लोकव्यवहारसिद्धा जनपदादिधर्मा उच्यन्ते, तेषां वेदाश्च वार ऋग्यजुःसामाथर्वाणः । अङ्गानि पट् | तेषां वेत्ता पाठतोऽर्थतश्च । वेदशास्त्रोपयोगीनि तर्कांक्तिप्रत्युक्तिरूपाणि वाक्यानि, यथा महाभारते - 'क: स्विदेकाकी चरति सूर्य एकाकी चरति' इत्यादीनि वाकोवाक्यम् । तदपेक्षः यान्येतानि लोकादीन्युक्तानि तान्यपेक्षत इति । तद्वृत्तिः नदभिहितानां कर्मणामनुष्ठाता । पस्विति । याजना- ध्यापनप्रतिग्न है: सह पट् कर्माणि तेष्वभिरतः । वाशब्देन पूर्वोक्तेषु नियमः । सामयेति । पौरुषेयी व्यवस्था समयः । व्य. का. ४ । २५ तन्मूला आचाराः समयाचाराः तेषु भवाः सामयाचा - रिकाः स्मार्ता धर्मः, तेषु अभिविनीतः पित्रादिभिः सम्यक् शिक्षितः। +गौमि. प्राडूविवाकमध्याभवेत् । अधिरुपरिभाव ऐश्वर्ये वा । आङ् आगमनार्थे । एवमुक्तलक्षणं प्राविवाकमुपर्यासीनमधस्थितश्विरं वा गुणभूतः सन्नागच्छेत् कार्यार्थी । न तु प्राड्विवाकः स्वयं कार्यमुत्पाद्य आव्हयेदिति । तथा च मनुः --'नोत्पाद- येत्स्वयं कार्यम्' इति । गौमि. सर्वधर्मेभ्यो गरीय: प्राड्विवाके सत्यवचनम् । सर्वधर्मेभ्यः श्रुतिस्मृत्युपदिष्टेभ्यो धर्मसाधनेभ्यो गुरु- तरं प्राडूविवाके व्यवहारद्रष्टरि यथाभूतार्थदर्शित्वमित्यर्थः। प्राविवाके वा सन्निहिते साक्ष्यादीनां यत्सत्यवचन मिति ।

  • मभा.

आपस्तम्बः बहवो न्यायनिर्णतारः विवादे विद्याभिजनसंपन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः । अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवादः । तत्र विद्यादिगुणसंयुक्ता निर्णेतारः स्युरिति वाक्यशेषः । विद्या अध्ययनसंपत्, अध्ययनसहितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयमः । मेधाविनः ऊहापोहकुशलाः । धर्मेपु वर्णाश्रमप्रयुक्तेषु, अविनिपातिनः विनिपातः प्रमादः तद्रहिताः । उ. वसिष्ठः राजमन्त्री प्राइविवाको भवति । तस्य अपक्षपातितादिविधिः अथ व्यवहाराः । राजमन्त्री सहकार्याणि कुर्यात् । द्वयोर्विवदमानयोर्न पक्षान्तरं गच्छेत् । + शेषपदार्था: मभावत् । ऋगौमि. मस्करिभाष्यस्य द्वितीयकल्पानुसारिणी व्याख्या | (१) गौध. १३१२७; व्यक. १९; मा.; गौमि. १३ । २७; व्यसौ. १४. (२) गौध. १३१३१; अप. २१३; ब्यक. १०; मा. ; गौमि. १३ १३१; दवि . १५. (३) आध. २। २९५; हिध. २२०. (४) वस्मृ. १६।१-५ (ख) न पश्चान्तरं ( अत्र पक्षान्तरं न ) धान (द्यान्त).