२४ व्यवहारकाण्डम् ना । ओष्ठयोराच्छादकवस्त्रसादृश्यमेव न तु मुख्यमाच्छा- | धृतव्रतौ व्रतानां कर्मणां धारयितारौ। राजा क्षत्रियः,स चाऽ दकत्वमित्यभिप्रेत्योपमार्थो नकारः पठितः । कुलीदन्तै- र्वज्रवद्धनीभूतैरन्तरालच्छिद्ररहितैर्दन्तैः परिवृता परितो वेष्टिता वाग्देवता । दन्तानां विरलत्वे सत्युच्चार्यमाणा वर्णा आभासा भवन्ति । पविर्वज्रवत्तीक्ष्णशब्दोच्चारणेऽ- त्यन्तं पट्वी देवतेत्यर्थः । इत्येवमुक्तो यो मन्त्रः सोऽयं वाग्रसः सर्वस्याः वाचः सारभूतोऽवगन्तव्यः । ऐआसा. गौतमः सभाङ्गानि भिषेकादिगुणयुक्त: 'स र्मूधाभिषिक्तो राजा भवति' इति शङ्खवचनात् । ब्राह्मणश्च बहुश्रुतः | सत्यपि ब्राह्मणस्य प्राधान्ये राज्ञः पूर्वनिर्देशो बहुश्रुतत्वस्य ब्राह्मणविशेषणा- र्थम् । राज्ञोऽपि बहुश्रुतत्वानुकर्षणार्थश्चकारः । ततश्च राज्ञो- ऽपि बहुश्रुतत्वेन भवितव्यम् । ब्राह्मणस्य विशेषेणेति द्रष्ट- व्यम् | बहुश्रुतः बह्वनेन श्रुतमिति । राजब्राह्मणौ बहु- श्रुताविति वक्तव्ये विसमासनिर्देशो राज्ञोऽप्यतिशयेन शौर्यादिगुणयोगार्थः । ततश्च तौ धृतव्रतौ स्यातामिति शेषः । + मभा. 'नृपञ्च पुरुषसभ्यगणकलेखकहेमाग्न्यम्बुप्रावि- वाकादिसाधनसंपन्नो व्यवहारं पश्येत् । प्राविवाकः रोजा प्राविवाको ब्राह्मणो वा शास्त्रवित् । (१) उक्ताः साक्षिणः केन प्रष्टव्या इत्यत आह राजेति । पृच्छतीति प्राट्, पृष्टं विवेक्तीति विवाकः । पृच्छति वा असौ विवादिनं साक्षिणो वा, तदुक्तं च विचारयतीति प्राड्विवाकः । स राजैब भवेत्, श्रान्ते तस्मिन्नन्यकर्म प्रवृत्ते, ब्राह्मणो वा शास्त्रवित् बहुश्रुत इत्यर्थः । मभा. (२) विविच्य वक्तीति विवाकः ।
- गौमि.
। 3 द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः । अथ यद्यापद्विहिते कर्मणि कश्चिद्दोपापरिज्ञानालोभाद्वा प्रसज्येत ततोऽसौ केन निवार्यः ? राजब्राह्मणाभ्यामुपदेश दण्डाभ्याम् । यतस्तावेव-द्वाविति । द्वाविति प्रकर्षवाची न संख्या निर्देश द्विवचन निर्देशादेव द्वित्वसिद्धेः । अस्ति चातिशयार्थः संख्यानिर्देशः । यथा - 'अस्मिन् ग्रामे द्वावेव ब्राह्मण' इति । तत्र गम्यते, अन्येऽपि ब्राह्मणाः सन्ति, द्वावेवाऽनुष्ठानपराविति । अत्रापि राजब्राहाणयोरतिशयेन धृतव्रतत्वार्थ, नान्येषां प्रतिषेधार्थम् । लोकग्रहणं वीप्सार्थे, लोकसंघाते लोके राष्ट्र इत्यर्थः । अन्यथा सर्वकर्मणां लोका धिकारत्वादनर्थकमेवैतत् स्यादिति । एवं च यथा प्रतिराष्ट्र राज्ञा भवितव्यं तथा बहुश्रुतेनापि भवितव्यमिति गम्यते ।
- शेपं मभागतम् ।
(१) सवि.६४. गौतमधर्मसूत्रे नोपलभ्यते । (२) गौध.१३ । २६; व्यक.४ (ब्राह्मणो वा शास्त्रविद् ० ); मभा.; गौमि. ११९२६. (३) गौध.८।१; मेघा.८ ३३७; मा.; गौमि. ८।१; विर. ६२५. कीदृशः प्राड्विवाको न्यायेऽधिकृतः से एप बहुश्रुतो भवति । लोकवेदवेदाङ्गवित् । वाकोवाक्येतिहास पुराणकुशलः। तदपेक्षस्तद्वृत्तिः । चत्वारिंशत्संस्कारैः संस्कृतः । त्रिषु कर्मस्वभिरतः । षट्सु वा । सामयाचारिकेष्वभिविनीतः । ( १ ) स एप इति परोक्षप्रत्यक्षोपदेशः । बहुश्रुतो भवति संपद्यत इत्यर्थः । भवतिग्रहणं च यद्यप्येषां लोका- दीनामीपद्विज्ञानं भवति किंचिदन्यदपि श्रुतं तथापि भव- त्येवेत्येत्रमर्थ, अन्यथा स एप बहुश्रुत इत्येव सिद्धत्वात् । लोकेति । लोकशब्देन लोकव्यवहाराः ग्राममर्यादादय उच्यन्ते । वेदशब्देन उपवेदाः आयुर्वेदधनुर्वेदादय उच्यन्ते । द्वितीयेन वेदशब्देन चत्वारो वेदा उच्यन्ते । अङ्गशब्देन व्याकरण शिक्षाछन्दोविचितिकल्पसूत्रज्यो- तिपनिरुक्तान्युच्यन्ते । विच्छन्दः प्रत्येक मभिसंबध्यते । वेदविदित्यनेनैव वेदपाठोऽपि द्रष्टव्यः । स्मृत्यन्तरे अन- धीतवेदस्यान्यविद्याप्रतिषेधात् । यथाह मनुः — ' - 'योऽन- + गौमि. मभागतम् | (१) गौध.८/४-११; मभा. शत् (शता); गौमि. ८४. १२ एप (एव) व्याख्यायामेप इति; स्मृच. १२६ मभावत् ; विर.६३२ एष (एव) लोकवेदवेदाङ्ग (वेदवेदाङ्गविद्या) राण (राणेषु) सु वा (सु) साम (सम) रिके (रे); पमा. २०७ दपेक्ष (इवेक्ष) साम (सम) भिविनीत : (मिनिविष्ट: विनीत :); दवि, ४४ एप (२व) (लोक०) चत्वा ( चाष्टाचत्वा ) शत् ( शता) सुं वा (सु) साम... नीतः ( सदाचारेषु विनीत :); विता. २८ एष (एव) चत्वा ( चाष्टाचत्वा) कर्मस्वभिरतः (कर्मस्वीज्याध्ययनदा- नष्वेभिनिरतः) षट्सु वा (प्रतिग्रहयाजनाध्यापनसहितेषु षट्सु वा ); प्रका.८०; समु. ६ मभावत्.