यच्च मनः, इह वा अस्मिन् वा विपये बद्धं संसक्तम् । मनसो विषयासङ्गेन अनवस्थानात् । तत्संबन्धार्हान् सर्वान् पदार्थान् अभिनयेन दर्शयति । इह वा इह वेति । अस्म- द्व्यतिरिक्तसर्वविपयेषु संसक्तं वर्तते । तत् तादृशं, वः युप्माकं, मनः, आ वर्तयामसि अस्मदभिमुखं कुर्मः । आवर्तितं च वो मनः मयि रमतां मदनुकुलार्थचिन्तापरं भवत्त्वित्यर्थः । सोदकामत् सा गार्हपत्ये न्यक्रामत् || गृहमेधी गृहपतिर्भवति य एवं वेद । असा. व्यवहारसभाया उत्पत्तिः ,अथ पर्पदादिराजसभायां केनचिद्विवादे सति, अभय जय हेतुप्रयोगमाह- वचामिति । वचां मधुकमित्येते आस्ये, अवधाय स्थापयित्वा, 'अपाम्फेनेन नमुचे: शिर' तस्या जातायाःसर्वमविभेदियमेवेदं भविष्यतीति । इत्येतत् साम मनसा अनुद्रुत्य उच्चार्य, अन्ते मन्त्रान्ते, 'विराडू वा इदमग्र आसीत् । स्वाहाकारेण निगीर्य निगरणं कृत्वा, आत्मानं राजन्वा नहं इत्युक्त्तवा, अराजकत्वमसीति प्रतिवादिनं उक्तवा, विवदेत् तेन सह विवादं कुर्यात् । तथा सति स वक्ता परिपदि राजनि चोत्तरवादी भवति इति । अथातो वाग्रसो यस्यां संसद्यधीयानो वा भाष- माणो वा न विरुरुचुपेत तत्रैतामृचं जपेत् । सासा. अथ वीणोपास्तिकथनानन्तरं, यतः कारणात् फलोक्ति प्रसंगेन सभारञ्जन हेतुर्मन्त्रो बुद्धिस्थोऽतः कारणावाग्रसो वाचः सारभूतो मन्त्रोऽभिधीयत इति शेषः । यस्यां संसदि विद्वत्सभायां, अधीयानो वेदशास्त्रगोष्ठी कुर्वाणः पुरुषो राजसभायां वा लौकिकान्युचितवाक्यानि भाषमाणो वा, विरुरुचुत विशेषेण रुचिकरः सर्वजनानां रञ्जको यदि न भवेत्, नत्र तस्यां सभायां, रञ्जकत्व सिध्यर्थमेतां वक्ष्यमा- णामृचं जपेत् तन्मन्त्रपुरश्चरणादिकं कुर्यात् । *ऐआसा. ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेदिति सोदकामत् सा सभायां न्यक्रामत् ।। यन्त्यस्य सभां, सभ्यो भवति य एवं वेद || सोदकामत् सा समितौ न्यक्रामत् ।। यन्यस्य समितिं सामित्यो भवति य एवं वेद ॥ सोदक्रामत्, सामन्त्रणे न्यक्रामत् ॥ यन्त्यस्यामन्त्रणमाभन्त्रणीयो भवति य एवं वेद । व्यवहारसभा ये ग्रामा यहरण्यं याः सभा अधि भूम्याम् । ये संग्रामा: समितयस्तेषु चारु वदेम ते से विशोऽनुत्र्यचलत् । तं सभा च समितिश्च सेना च सुरा चानुव्यचलत् ॥ सभायाश्च वै स समितेश्च सेनायाश्च सुरायाञ्च प्रियं धाम भवति य एवं वेद || आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासदः ।। संप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः ।। तानिन्द्रियावतः कुरु | सर्वमायुरूपासताम् || प्राङ्क्षिवाक: निसाद धृतवत इति घृतव्रतो वै राजा न वा एप सर्वस्मा इव वदनाय न सर्वस्मा इव कर्मण यदेव साधु वदेद्यत्साधु कुर्यात्तस्मै वा एप च श्रोत्रियश्चैत वैद्वौ मनुष्येषु वृतव्रतौ । हृ सभा (१) असं. ८।१०।१-३,८-१३. (२) असं. १२१११५६. (३) असं. १५|९|१-३. (४) ऐब्रा. ३९।७. (५) तैना. ११२११. (६) शघ्रा. ५|४|४|५. २३ व्यवहारसभा अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद । वैचां मधुकमित्येते आस्येऽवधायापाम्फेनेनेत्येतं मनसानुद्रुत्य अन्ते स्वाहाकारेण निगीर्य राजन्वान हमराजकस्त्वमसीत्युक्त्वा विवदेत् पर्षदि राजनि चोत्तरवादी भवति । घाग्रसः ॥ सर्वस्यै वाचो वेदशास्त्रलौकिकोक्तिरूपस्य सर्वस्यापि वचनजातस्य, ईशाना स्वामिरूपा वाग्देवता, मां सभा- रञ्जकोक्तिकामं, इहास्यां विद्वत्सभायां राजसभायां वा, चारु शोभनं सर्वरञ्जकं यथा भवति तथा, वादयेत् संभापकोक्ति प्रेरयतु । कीदृशी वाग्देवता । ओष्ठापिधाना न । उपमार्थी नकार :। ओठद्वयमपिधान वस्त्रवदाच्छादनं यस्या जिव्हादिस्थानगताया वाग्देवतायाः सेयमोष्ठापिधा- (१) ताब्रा. १०।७१३. (२) साबा. २१७१५. (३) ऐआ. ३१२१५. (४) ऐआ. ३।२।५.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१०१
दिखावट