पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ i रुद्र जलापभेषज नीलशिखण्ड कर्मकृत । प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे || तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति । अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥ हे पाठाख्ये ओषधे, शत्रुः प्रतिवादी, प्राशं प्रष्ट्रारं वादिनं त्वत्सेवकं मां, नेत् जयाति नैव जयतु । यतस्त्वं सहमाना शत्रुसहनस्वभावा, अतः अभिभूरसि प्रतिवादिनः शत्रोरभिभवित्री भवसि । एवं अतिशयितवीर्ययुक्तायास्तव सेवया मां शत्रुर्न जयतु इत्यर्थः । प्राशं प्रष्टारं वादिनं मां उद्दिश्य, प्रतिप्राश: प्रतिकूलप्रश्नकर्तॄन् प्रतिवादिनो, जहि पराजितान् कुरु । (१) । व्यवहारकाण्डम् हे इन्द्र, य: प्रतिवादी, नः अस्मान्, अभिदासति उप- क्षपयति युक्तिमिस्तिरस्करोति । तस्य उपक्षपयितुः, प्राशं प्रतिकूलप्रश्नरूपं वाक्यं, त्वं जहि नाशय । तथा शक्तिभि स्त्वदीयैः सामर्थ्यविशेषैः, नः अस्मान्, अधि ब्रूहि अधिक वचनयुक्तान् ग्राह्यवाचः कुरु । फलितमाह | प्राशं प्रष्टारं वादिनं मां, उत्तरं प्रतिवादिनोऽप्युत्कृष्टतरं, कृषि कुरु । (७)

  1. असा.

व्यवहारसभा सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने । येना संगच्छा उप मा स शिक्षाचारु वदानि पितरः संगतेषु || (१) प्रजापतिः प्रजानां पाता वा पालयिता वा । नि. १०/४२ (२) सभा विदुषां समाज: । समितिः संयन्ति संगच्छन्ते युद्धाय अत्रेति समितिः संग्रामः | सांग्रामीण जनसभेत्यर्थः । ते उभे अपि, मा मां वादिनं, अवतां रक्षताम् । कीदृश्यौ । प्रजापतेः सर्वजगत्स्रष्टुर्दुहितरौ पुत्र्यौ । विद्वत्संघस्य सभात्वात् तदुक्तेश्च सर्वशास्त्र निर्णीतधर्मरूप- त्वात् प्रजापतिपुत्रीत्वव्यपदेशः । ते च सभे संविदाने अस्म- द्रक्षणविषयं ऐकमत्यं प्राप्ते । किं च येन वादिना, संगच्छै

  • द्वितीयादिपष्ठान्तमन्त्रव्याख्या प्रकृतानुपयुक्तत्वात् न

समृद्धता । (१) असं. ७/१३११. वक्तुं संगतो भवानि । स विद्वान्, मा मां संगतं, उप शिक्षात् उपेत्य शिक्षयतु । समीचीनं वादयत्वित्यर्थः । अयमर्थः । येन सह अहं विवदे, स स्वयं मदुक्तवचन- विघटनपटूनि वाक्यानि अभापमाणः प्रत्युत मामेवं स्वत्र- चनतिरस्कारकवाक्यवादिनं करोत्विति । अपि च,हे पितरः पालकाः, मदुक्तं वाक्यं साधु साध्विति अनुमोदमानाः पितृ- भूता वा हे सभासदो जनाः, संगतेषु मया सह वक्तुं मिलि - तेषुवादिषु, चारु न्यायोपेतं सदुत्तरं, वदामि यथा सम्यग् वदामि तथा अनुगृहीतेत्यर्थः । असा. 'विद्म ते सभे नाम नरिटा नाम वा असि । ये ते के च सभासद्स्ते मे सन्तु सवाचसः ॥ हे सभे, ते तत्र, नाम नामधेयं, विद्म जानीमः | तन्नाम दर्शयति । हे सभे नाम नाम्नेति यावत् । नरिटा अहंसिता पौरनभिभाव्या । एतन्नामिका असि वै भवसि खलु । अत स्ते तव संबन्धिनः ये के च सभासदः सभायां सीदन्तो विद्वांसः, ते सर्वे, मे मम, सवाचसः समानवाक्याः, सन्तु भवन्तु । न हि सभा सर्वा संभूय एकं प्रति ब्रूते अपि तु तत्रत्याः कतिपये । तेऽपि मद्विषये अनुकूलवाक्या भवन्तु इति प्रार्थ्यते । असा. ऐपमहं समासीनानां वर्चो विज्ञानमा ददे । अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु || समासीनानां सभायां अवतिष्टमानानां, एषां पुरो- वर्तिनां वादिनां, चर्चः तेजो वैदुष्यजनितप्रभावविशेषं, विज्ञानं वेदशास्त्रार्थविषयं ज्ञानं च | विज्ञानं शिल्पशास्त्रयो रिति तद्रिदः । तद् अहं आददे स्वीकरोमि अपहरामी व्यर्थः । किंबहुना हे इन्द्र, इन्द्रस्यैव वागनुशासनकर्तृत्वात् सभाजयकर्मणि तस्यैव प्रार्थनम् । तादृशेन्द्र, अस्याः पुरः स्थितायाः, सर्वस्याः संसद: सभायाः, भगिनं - भगो भाग्यं बैदुष्यलक्षणं जयलक्षणं वा-तद्वन्तं मां कृणु कुरु । सर्वा मपि सभां मदेकवाक्य श्रवणपरां कुर्विव्यर्थः । असा. यद् वो मनः परागतं यद् बद्धमिह वेह वा । तद् व आ वर्तयामसि मयि वो रमतां मनः ॥ हे सभासदः, वः युप्माकं, यन्मनः मानसं, परागतं अस्मत्तः परागत्य अन्यत्र गतं, अस्मदनभिमुखमित्यर्थः । (१) असं. ७७१३१२. (२) असं. ७११३१३. (३) असं. ७/१३१४.