पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
दैवं

क्षीरस्वाम्यादयः पुनश्चकारं नैव पठन्ति । 'शठ श्लाघायाम्'।
चितादिः॥

 मण्ठते शपि शोकार्थे मटेन्मदनिवासयोः ॥ ८२ ॥

  'मठि शोके । 'मठ मदनिवासयोः' ॥

 वण्ठते त्वेकचर्यायां स्थौल्ये शपि वठेदिति ।

  'वठि एकचर्यायाम्' । अनुदात्तेत् । 'वठ स्थौल्ये' ।

 मुण्डते मार्जने मुण्डेः खण्डने शपि मुण्डति ॥ ८३ ॥

  'मुडि मार्जने' । 'शोधन इत्यर्थः' इति च धनपालः ।
मज्जन इत्यन्ये । तथा च क्षीरस्वामी-'मज्जनं शुद्धिर्न्यग्भावश्च'
इति । 'मुडि खण्डने' । [१]क्षीरस्वामीत्वाह- "अर्थभेदात् पुनः पाठः।
अत एव 'मुडि खण्डनप्रमर्दनयोः' इति [२]कण्ठः । शुठीति कौशि-
कदुर्गों । शुण्ठति" इति । '[३]मुट प्रमर्दन' इत्यत्रापि (ठा?) डान्तेन
मुडीति पाठात् पुनः पाठः॥

 भूषार्थे मण्डतीति स्यात् तत्र मण्डयतीति णौ।


  1. मूलेऽर्थनिर्देशस्योपलक्षणतामाश्रित्यान्योऽपि परस्मैभाषः प्रमर्दनार्थो मुट- प्रसक्तावुक्तः क्षीरस्वाम्यनुसरणे सङ्ग्राह्यः स्यादित्येवं रूपं विशेषमाविष्कर्तुमाह- क्षीरस्वामीत्वाहेति.
  2. कण्ठः=सरस्वतीकण्ठाभरणं, तत्कर्ता भोजदेव इति यावत् । एतदन्तवाक्यानुवादेनोपपत्तौ 'शुठीति' इत्यादिकमधिकमनुवदन्नेवं मन्यते- सति शुठिपाठे खण्डनप्रमर्दनाभ्यां सह शोषणग्रहणस्याप्यत्रैव सुकरतया 'शुठि शोषण' इति पृथङ् न पाठ्यं स्यादिति युक्त्या यथायं शुठिपाठो न गणितो- ऽस्माभिः (८० श्लोके.), तथा मुडिपाठे सति प्रमर्दनेन सह खण्डनग्रहणस्यापि कते शक्यतया 'मुडि खण्डन' इति पृथङ् नापठिप्यतेति युक्त्या प्रमर्दनार्ये मुडिपाठोऽयं नादर्त्तव्य इति.
  3. क्षीरस्वाम्युक्तोऽयं पुनःपाठः कस्य पठित- स्येत्येतद् विवृणोति-मुटोति.