ऽथ कण्ठते ।
शोके यौ कण्ठयेत् कण्ठेत् कठेत् स्यात् कृच्छ्रजीवने ॥
अथशब्दः पूर्वार्थान्वयाशङ्कापरावृत्तिपरः । 'क[१]ठि शोके'।
'कठ कृच्छ्रजीवने' । एप्वाद्योऽनुदात्तेत् ॥
गतिप्रतिहतौ शोठत्यालस्ये शोठयेदिति ।
'शुठ गतिप्रतीघाते' । शूठ इति क्षीरस्वामी । प्रतीघात
इति धनपालः । तथा च 'कुठि च' इत्युत्तरधातौ कुण्ठ इत्यादौ
प्रतिहतिमात्रं प्रतीयते । 'अनिशित इत्यर्थ' इति च स एवाह ।
'शुठ आलस्ये'।
शुण्ठयेच्छुण्ठतीत्येवं शोपणे णौ शपि क्रमात् ॥ ८ ॥
'शुठि शोपणे' । अत्र णौ क्षीरस्वामी- 'केचिदेनम[२] -
कारन्तं पठन्ति । लक्ष्यतस्तदपि प्रमाणम्' इति । तदा शोठये-
दिति पठितव्यम् ।
शठयेच्छठयेदेते द्वे सम्यगवभाषणे ।
गत्यसंस्कारधात्वर्थे शाठयेच्छाठयेदिति ॥ ८१॥
कैतवे शठतीति स्याच्छ्लाघायां शाठयेत णौ।
'शठ श्वठ सम्यगवभाषण' इति मैत्रेयरक्षितः । कथादी।
सम्यगाभाषण इति दुर्गः । सम्यगाभाषणे सम्यग्वचनक्रियाया-
मिति क्षीरस्वामी । सम्यग् भाषण इति शाकटायनः । 'शठ
श्वठ असंस्कारगत्योः' । 'श्वठि इत्येके' इति मैत्रेयरक्षितः । 'शठ
कैतवे च' । चकारात् पिठ हिंसासंक्लेशनयोरित्युक्तावर्थौ गृह्यते ।