पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
पुरुषकारोपेतम् ।

 मण्डते वेष्टने

  'मडि भूषायाम्' । णौ तु हर्षे चेत्यधिकम् । 'वडि वेष्टने
माडि च' । क्षीरस्वामी त्वाह-"'वडि विभाजने । मडि च' ।
पृथक्सूत्रादर्थान्तरेऽपि । नन्दी तु 'वडि विभाजने । मडि वेष्टन'
इति च भङ्क्त्वा पठति" इति । तच्चार्थान्तरं प्रयोगतोऽवगन्त-
व्यम् ॥

    स्तुत्यामीट्टे तत्रेडयेण्णिचि ॥ ८४ ॥

  'ईड स्तुतौ' । आद्योऽदादिरनुदात्तेत् ॥

 मन्थार्थे खण्डते खण्डेर्भेदार्थे खण्डयेण्णचि ।

  'खडि मन्थे' । स च मन्थनम् । 'खड खडि कडि
भेदे' । तत्र च खडेत्यस्य खाडयतीति द्रष्टव्यम् ॥

 हेडतेऽनादरे हेडेर्वेष्टने हिडयेन्मिथः ॥ ८५॥
 होडतीति गतौ होडेर्होडतेऽनादरे पुनः।

  हेड्ट होड्ट अनादरे' । अनुदात्तेतौ । 'हेड वेष्टने' । घटा-
दिः । तत्र च मितां ह्रस्वो भवन 'एच इग्घ्रस्वादेश' (१-१-४८)
इतीगेव भवति । हेतुमण्णिच्त्वातु 'णिचश्चे' (१-३-७४) त्यात्मने-
पदमप्यूह्यम् । अण्यन्तावस्थायां तु हेडतीति [१]द्रष्टव्यम् । 'हुट्ट होड्ट
गतौ' । हुडृ हूडृ इति धनपालशाकटायनौ । क्षीरस्वामीत्वाह-
"हूडृ हुडृ हौडृ गतौ' हूडति होडति हौडति । होडृ इति चन्द्रः।

होडति" इति ॥


  1. अस्य धात्वन्तरत्वे वा पूर्वपटितात्मनेपदिधात्वनुवादरूपत्वे वा परस्मैपदि - पङ्क्तौ निवेशादित्याशयः । अत्र माधवः --- 'इहायमनृदित् पठ्यते, पूर्वस्त्वृदि - दिति धात्वन्तरत्वं नाशङ्क्यं, यत ऋदितोऽननुवादेऽपि मित्त्वाभ्दस्वत्वेन भाव्य- मित्युत्सृष्टानुबन्धोऽयमनुवादोऽनादरार्थस्य हेडतेः' इति.