पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
दैवं

 नृतौ नटत्यवस्पन्दे चुरादेर्णिचि नाटयेत् ।

  'नट नृतौ' । नृतौ *नृत्ताविति च क्षीरस्वामी । उभयथापि
नर्तन इत्येवार्थः । तच्च नाट्यम् , यत्कारिषु नटव्यपदेशः। न तु
मार्गदेशीशब्दाभ्यां प्रसिद्धं नृत्यं नृत्तञ्च, यत्कारिषु नर्तकव्यपदेशः।
तत्र च वाक्यार्थाभिनयो नाट्यम् । पदार्थाभिनयस्तु नृत्यम् ।
अभिनयशून्यः पुनः शास्त्रोक्तभङ्ग्या गात्रविक्षेपो नृत्तमिति तद्विदः ।
नैघण्टुकानां तु 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तनम्'
इत्यभेदव्यवहारो निरूढलक्षणयैव नेयः, 'अन्यायश्चानेकार्थत्वम्'
इति न्यायात् । 'नट अवस्पन्दने । तच्च नाट्यम् ।
नाट्य इत्येव चन्द्रः । अत्र च णोपदेशाणोपदेशविभागो 'णो न:'
(६-१-६५) इत्यत्र भाष्ये दर्शितः-'सर्वे नादयो णोपदेशा
नृतिनन्दिनर्दिनक्किनाटिनाथृनाधृनॄवर्जम्' इति । केचित्
पुनस्थान्तमेवात्र पठन्ति, न धान्तम् । तथा च ‘णाधृ नाथृ याच्ञोपता-
पैश्वर्याशीप्षु' इत्यत्र मैत्रेयरक्षितः -'आद्यो णोपदेशः, नेतर'
इति । (नृत?) नॄ इति प्रायो न पठन्ति । तथा च श्रीधरो नॄ-
त्यागेन नृत्यादीन् पठित्वा 'एतान् सप्त वर्जयित्वा' इत्याह । न.
टिश्चुरादिण्यन्तो* [१]नाटिः । 'नृती गात्रविक्षेपे । 'टुनदि समृद्धौ।
'नर्द गर्द शब्दे' । शाकटायनन्यासे तु णोपदेशो वायम् । 'नक्क-
ठक्क नाशने' । 'नॄ नये' । तत्र च प्रणटति प्रनाटयति इत्यादौ
'उपसर्गादसमासेऽपि णोपदेशस्य' (८-४-१४) इति णत्वं तदभा-
वश्व णोपदेशाणोपदेशफलम् । घटादौ चायं नटिः पठ्यते ।


 *नृत्तावित्यपि' इति गपुस्तके पाठः, *दिण्यन्तो' इति गपुस्तके पाठः


  1. घटादिस्त्वदीर्घार्ह इति न गृह्यते.