अर्थपाठे त्वस्य विवदन्ते । तत्र तावन्नृताविति नृत्ताविति गताविति
च पक्षत्रयं मैत्रेयरक्षितः प्रतिपेदे । क्षीरस्वामी तु-'नट नतौ
[१]नटयति शाखाम् । नृत्तौ तु नाटयति' इति ॥
भाषार्थे पाटयेद् ग्रन्थे पटयेद् गमने पटेत् ॥ ७६ ॥
वण्टयेद्वण्टतीत्येते णिशपोः स्तां विभाजने ।
णावदन्ताद्वटेर्ग्रन्थे वटयेद्वेष्टने वटेत् ॥ ७७ ॥
पट भाषार्थः । 'पट वट ग्रन्थे' । कथादिः । स च वेष्ट-
नमिति क्षीरस्वामी । 'अट पट गतौ' । 'वटि विभाजने' । चुरादिः
कथादिभूर्वादिश्च । तत्र च कथादौ वटेत्येके । तथा च मैत्रेयर-
क्षितो वटेति पठित्वा 'वटीत्येके' इत्याह । तदा वटयेदित्यपि द्र-
ष्टव्यम् । वण्टापयेदिति तु शाकटायनः । तच्च लञ्जापयेदितिव-
न्नेयम् । मैत्रेयरक्षितश्चाह - 'अदन्तेषु पाठबलाददन्तत्वे वृद्धिरि-
त्यपरे । वण्टापयति लञ्जापयति' इति । चुरादौ तु स एवाह-
'वटि विभजन इति भूवादौ पठ्यते । ततो हेतुव्यापारे णिचि
विभाजनेऽर्थे वण्टयतीति सिध्यति । किन्त्व[२]सौ कर्त्रभिप्राये क्रि-
याफले आत्मनेपदी । [३]अनेन पुनस्तत्रापि [४]वण्टयतीति । अन्ये
पुनर्वैचित्र्यार्थमस्योपादानमिच्छन्ति' इति । [५]तदा 'णिशपोः स्तां
विभाजने' इत्येतद्विभाजने विभजने चेति व्याख्येयम् । भाजेर-
कथादी' इति धपुस्तके पाठः.