पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
पुरुषकारोपेतम् ।

त्येव प्रतिपदोक्ते धातौ सम्भवति कथङ्कारं गृह्येत, लुण्टेत्यस्यैव
झटिति परिस्फुरणात् । 'कुट्टिलु(ण्टि?)ण्डिवृङ्जल्पभिक्षादाकट्'
(४-३-२५५) इति शाकटायनानुसारेण कुट्ट लुण्डेत्येव पाठपरि-
कल्पनेऽपि टकारसाहचर्यादनाञ्जस्यं व्यक्तमेव । 'रुष रोषे । रुट
इत्यप्येके' इति मैत्रेयरक्षितः। 'रुट भाषार्थ' इति च क्षीरस्वामी ॥

 कूटयेताप्रसादे णौ कूटेर्दाहे तु कुटयेत् ।

  'कूट अप्रसादे । चितादिः । 'कुट प्रतापन इत्येके'
इति मैत्रेयरक्षितः । स एव तु पाठः प्रायेण दृश्यते । तदा 'को-
टयेत प्रतापे णौ' इति पठितव्यम् । 'कुट्ट प्रतापने' । कुट्टयेतेति
क्षीरस्वामी । 'कुट्ट छेदनपूरणयोरि'ति च [१]चुरादावेवाह । कुत्स-
नयोरिति तु बहवः । छेदन इत्येव पुनः 'जल्प भिक्ष' (३-२.
१५५) इत्यत्र जिनेन्द्रः । एवमेव च दुर्गः । सर्वथापि तस्य कु.
ट्टयतीति द्रष्टव्यम् । कुटपक्षे तु 'कुट कौटिल्य' इत्यस्य तुदादेः
कुटतीति । 'कूट दाहे' । कथादिः । तत्फलं पुनरचुकूटदित्यत्र
'नाग्लोपिशास्वृदिताम्' (७-४-२) इति ह्रस्वाभावः । परितापन
इति तु मैत्रेयरक्षितः । 'केत श्राम कुण गुण चामन्त्रण' इति च-
कारादामन्त्रणेऽप्ययं वर्तते । केत ग्रामेति मैत्रेयरक्षितपाठेऽप्य[२]त्रां-
शे न विवादः । बहनुमतत्वात् परमाद्यमेव पाठमभिरोचयामहे ॥

 भा[३]षासंसर्गसंश्लेषे पोटयेत् पुटयेत् पुटेत् ॥ ७५ ॥

  पुट भाषार्थः । 'पुट संसर्गे' । कथादिः । पुट संश्लेषे ।

तुदादिः॥


  1. चितादेर्वहिरित्यर्थः.
  2. चकारेण कूटानुकर्षणांशे.
  3. समाहार द्वन्द्वोमम्.