पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
पुरुषकारोपेतम् ।

रप लप व्यक्तायां वाचि' इति । तदेतत् 'ब्रुविशासिगुणेन च यत् सचत' इति भाष्यौचित्यादयुक्तम् । सचत इति सम्बध्यत इत्यर्थः, समवैतीति यावत् । एवं च 'षच सेचन इत्यस्यानुदात्तेतोऽनेकार्थत्वात् समवाये वृत्तिः' इति हरदत्तोक्तं प्रौढिवादमात्रम् । न्यासे च सचत इत्यस्य 'षच समवाये' इत्येव धातुरुक्तः। एवञ्च परस्मैपदिषु 'षप समवाय' इति पान्तस्यैव पाठः । पान्तकाण्डं चैवमनुसृतं भवति । एवमेव च मैत्रेयरक्षितः शाकटायनश्च । क्षीरस्वामी तु सप्त सप्तिरिति चोदाहृत्य ‘सचेति चन्द्रः। सचति सचिव' इत्याह ॥

 णौ लोचयति भाषार्थे दर्शने शपि लोचते ॥ ४६॥

  लोचृ भाषार्थः। 'लोचृ दर्शने' । अनुदात्तेत् ॥

 कल्कने मुञ्चते मुञ्चेर्मोक्षे मुञ्चति मुञ्चते।
 प्रमोचने चुरादेर्णौ मोचयत्येष न त्व्लृ दित् ॥ ४७॥

 'मच मुचि कल्कने । 'कल्कनं दम्भः शाठ्यं च' इति मैत्रेयरक्षितः। कल्कनं दम्भः *क्वथनं च । मच मुचेति च चन्द्रः। मोचते। 'मुञ्चते' इति क्षीरस्वामी । मच मचीत्येके । तथा च 'मचि कल्कने' 'मचुङ् धारणोच्छ्रायपूजनेषु'* इति शाकटायनः । तेन ह्यनुदा-


१. समवाये पठितस्य परस्मैपदित्वपक्षे समवायार्थे 'सचत, इति भाष्यप्रयोगस्योपपत्तये हरदत्तेन कथितम् . २. न पुनरात्मनेपदसिद्धये 'षच सेचने' इति धातुरुक्तः। तथा च षचधातुः समवायार्थकस्तङ्योग्य एवाभिमतो न्यासस्येत्युन्नीयते. ३. 'सप्यशूभ्यां तुद् च' इति सपेः कनिन्प्रत्यये तुडागमे च सप्तन् शब्दः 'क्तिच्क्तौ च संज्ञायाम् । (३-३-१७८) इति सपेः क्तिचि सप्तिशब्दः. ४. अनेन चैवमुकारवान् धातुर्भ्वादौ त्यक्तः फलति । (एकीयपाठे शाकटायनीयपाठे च मकाराः सर्वे मुकारा एव पठ्यन्ते घपुस्तके)


  • कथनम्' इति गपुस्तके पाठः. *'धारणोदयपूजनेषु' इति गपुस्तके पाठः.