पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
दैवं

त्तेत्स्थाने तु इदित् , तत्स्थाने चोदित् क्रियते। धनपालश्चात्रैवानुकूलः। 'मुच्लृ मोक्षणे । तुदादिः । 'शे मुचादीनाम्' (७-१-५९) इति नुम् । 'मुच प्रमोचने' । एष न त्व्लृ दिदिति । पूर्व एव लृदित,न त्वयमिति पाठशुद्ध्यर्थमेतत् । तत्र चामुचदिति तु लृदित्त्वफलम् । 'पुषादिद्युताद्य्लृदितः परस्मैपदेषु' (३-१-५५) इति च्लेरङ्॥

 णौ पञ्चयति विस्तारे व्यक्तौ तु शपि पञ्चते ।

  'पचि विस्तारवचने' । प्रपञ्चयति । विस्तार इत्येवैके । तथाच श्लोकधातुपाठः-'जुड प्रेरणवाची शुठालस्ये गज मार्ज च । शब्दार्थे पचि विस्तारे' इति । तथैव चन्द्रः। पचि व्यक्तीकरणे । पचेति दुर्गः । अनुदात्तेत् ॥

 वञ्चतीति गतावर्थे वञ्चयेत प्रलम्भने ॥४८॥

  'वञ्चुः गत्यर्थः' । 'वञ्चु प्रलम्भने' । चितादिः ॥

 पूजायां णौ विभाषार्चेरर्चयत्यर्चतेऽर्चति ।
 भूवादौ पाठसामर्थ्यात् कर्तृगामिफलेऽर्चति ॥४९॥

  'अर्च पूजायां' युजादिः स्वरितेत् । ततश्चार्चतीत्यपि तेनैव सिद्धेऽर्चेर्भूवादिपाठः कर्त्रभिप्रायेऽपि क्रियाफले परस्मैपदार्थः । शाकटायनस्य त्वात्मनेपदी ॥

 गतियाचनयोरञ्चत्यञ्चते णौ विशेषणे।


१. 'तातांझथासाथांध्वमिल्वहिमहिङ् ङिदिदिच्छीयसंक्ष्ण्वपस्कृनिविशः' (१-४-१) इति शाकटायनसूत्रम् । ङित इदितः शीयादेशात् संक्ष्ण्वादिभ्यश्च धातुभ्यः परस्य लस्य अन्ययुप्मदस्मासु प्रत्येकमेकद्विबहुषु यथासङ्ख्यं त आतां झ, थास् आथाम् ध्वम् , इल् वहि महिङ् इत्याशा भवन्तीति तस्यार्थः. २. तत्स्थाने = इदित्स्थाने. 'उदितः' (४-२-१९७) इति शाकटायनीयं सूत्रम् ‘उदितो धातोर्नम् भवति' इत्यर्थकम् . ३. चितादिः = आकुस्मीयः. ४. एवं चास्य मते भूवा- दिपाठफलं क्रियाफलस्याकर्तृगामित्वेऽप्यात्मनेपदं सम्पद्यते.