पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
दैवं

'अचः परस्मिन् पूर्वविधौ' (१-१-५७) इति स्थानिवद्भावाल्लघूपधगुणाभावः । पदादित्वात् तङ् । यदाह--'आगर्वादात्मनेपदी' इति । 'पद गतौ' इत्याद्या 'गर्व माने' इत्यन्ता ये धातवः कथादिषु पठ्यन्ते, त आत्मनेपदिन इत्यर्थः । अत्र मैत्रेयरक्षितः- 'मृग्यतीति कण्ड्वादिपाठात् केचिन्मन्यन्ते' । इति । मार्ग अन्वेषणे ॥

 लिङ्गेर्गतौ लिङ्गति लिङ्गयेदि-
  त्यस्यैव चित्रीकरणार्थवृत्तेः ॥ ४४॥

  लिङ्गिर्गत्यर्थः । लिगि चित्रीकरणे ॥

 भाषणे लङ्घयेच्छोषे लङ्घेद् गत्यां तु लङ्घते ॥४५॥

  लधिर्भाषार्थः । 'लघि शोषणे' । लघिर्गत्यर्थः । अनुदात्तेत् । लघि भोजननिवृत्तौ चेत्येके । तथा च क्षीरस्वामी- "लघिर्भोजननिवृत्तौ च गत्यर्थश्च । 'नवज्वरे लङ्घनीयः" इति॥

 सेचने सचते तच्च समवाये सचत्यपि ।

  'षच सेचने' । सेवने तु सचिरुक्तो निरुक्ते - 'सिषक्तु, सचत इति सेवमानस्य' इति । अस्यैतौ वाचकावित्यर्थः । षच समवाये । तच्चेति सचते च । क्वचित्तु पठ्यते--

 सेचने समवाये च सचते सचति क्रमात् ।

  इति । तथा च 'अकथितं च' (१-४-५१)इत्यत्र हरदत्तः- केचित्तु परस्मैपदिभिः सह धातुमेनं पठन्ति । षच समवाये ।


१. दिवादेराकृतिगणत्वात् क्षीयते मृग्यतीत्यादि सिद्धिरित्याहुरिति भट्टोजिदीक्षिताः. २. 'सिषक्तु सचत इत्येते नामनी सेवमानस्य' इति आचार्यभगवद्दुर्ग इदं व्याचष्टे.