पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
पुरुषकारोपेतम् ।

इत्युभयपदी । रुढं चैतत् तन्त्रान्तरेष्वपि । क्षीरस्वामीत्वाह- सहनेऽर्थे शकिधातुर्विभाषितो विकल्पितः, पक्षे दिवादिः, पक्षे स्वादिरित्यर्थः । शक्यति शक्नोतीति । शाकटायनश्चामुमेव विभाषितार्थम्, अस्य चोभयत्र पाठमात्रादेव सिद्धत्वाद्वैयर्थ्ये नूनं मत्वा 'शक मर्षण' इत्येव पपाठ; न पुनः ‘शकी' इति । ईदित्वं हुभयपादित्वचिह्नं तन्मते । तच्चैतदुभयमपि बहुसम्मते यथोक्तेऽर्थे सम्भवत्ययुक्तमेव ॥

 तकेत् तङ्केद्यथासङ्ख्यं हसने कृछ्रजीवने ॥ ४३३ ॥

  'सहने' इत्यपरः पाठः । 'तक सहने' । क्षीरस्वामी पुनः सहन इत्युक्त्वा 'हसन इति दुर्ग' इति । यत्तु श्लोकधातुपाठे 'क्क नीचैर्गतौ तक्क मर्षणे बुक्क भाषणे' । इति द्विककारस्तकि: पठ्यते, तद् 'अचो यद्' (३-१-९७) इत्यत्रत्येन 'तकिशसियति जनीनामुपसङ्ख्यानम्' इति भाष्येण विरुध्यते । 'तकि कृच्छ्र- जीवने ॥

  अन्वेषणेऽर्थे मृगयेत णौ यौ
   मार्गेर्भवेन्मार्गति मार्गयेच्च ॥

  'मृग अन्वेषणे' । कथादित्वाददन्तः। ततश्चातो लोपस्य


१. क्षीरस्वाम्युक्तमुभयगणीयत्वमेव. २. इदं च वैयर्थ्यमिति च मत्वेत्यस्य कर्म. ३. दिवादौ स्वादौ च. ४. यथोक्तविभाषितपदोपादानरहितात् पाठादेव. ५. यत् सूत्रयति शाकटायनः-'ञिदिदपवदानुपसर्गज्ञः' (१-४-६५) इति । ञित ईदितोऽपवदादेश्च कर्तरि फलेशे लस्य तङ् भवतीति च तस्यार्थः. ६. द्विककार एव तकिधातौ सति ततो यति ण्यति वा वृद्धभावस्य तुल्यतया यत्प्रत्ययोपसंख्यानं व्यर्थे स्यादिति तत्साफल्यायैकककार एव धातौ भाष्यसम्मत्यवधारणादिति भावः.