पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
दैवं

स्वामी-भषण इत्येके । बुक्कति श्वा' इति । मैत्रेयरक्षितश्चैवनेवोदाहार्षीत् ॥

 मर्षणे शीकयेच्छीकेत् सेचने शपि शीकते ॥ ४२ ॥

  'शीक आमर्षणे' । युजादिः । शीकृ सेचने । अनुदात्तेत्। एतच्च शीकतीति मन्दैर्मा पाठीत्येवमर्थमुच्यते। अनुपात्ते त्वात्मनेपदचिह्ने* परस्मैपदपाठ एव अन्यथापि वृत्ताविरोधिपाठसम्भवेऽपि शुद्धो बोद्धव्यो यथा बुक्कतीत्यादौ । 'सीकृ इत्यार्या' इत्यपि धनपालः । तत्र चाद्यः पक्षः शीकर इति प्रयोगानुगुणः । योऽपिषोपदेशलक्षणे सीकृपाठ उक्तः, सोऽप्येवं प्रत्युक्तः । शीकृ गत्यर्थ इत्यप्येके । तत्स्थाने षेकृ इत्यन्ये । यदाह क्षीरस्वामी- 'शीकृ, सेकृ, स्रेकृ, स्रकि, शकि,श्लकि गत्यर्थाः । शीकेरर्थभेदात् पुनः पाठः। अत एव चन्द्रो नैनमध्यैष्ट । अन्ये षेकृ इति विकल्पेन षोपदेशकार्यार्थं पेठुः' इति ॥

 शङ्कते शकि शङ्कायां शक्तो शक्नोति मर्षणे।
 शक्यते शक्यतीत्येवं शपि श्नौ श्यनि च क्रमात् ॥४३॥

  'शक्लृ शक्तौ' । 'शक विभाषितो मर्षणे' । विभाषित


१. वचनातिरेकेणात्मनेपदावसायेऽभ्युपायाभावादिति शेषः । अत एवैव- ञ्जातीयके स्थले सर्वत्र ‘गत्यां तु लङ्घते' (४५श्लो.) 'पृक्ते संपर्के' (५१श्लो.) इत्यादौ 'अनुदात्तेद्' इति वक्ष्यते । 'तृप्तौ च चकते शपि', 'दर्शने लोकते लोकेः' (४० को.), 'इदितस्त्वङ्कते तत्र' (४१ श्लो.), 'शङ्कते शकि शङ्कायाम्' इत्यत्र तु परस्मैपदपाठे वृत्तविरोधसम्भवादभ्युपायादात्मनेपदं शक्यावसायमिति 'अनुदातेद' - इत्यात्मनेपदचिह्नं न कथितं; न च तज्जातीये स्थले वक्ष्यते 'सेचने सचते' (४६ श्लो.) इत्यादी. २. शीकरानुगुण्येन तालव्यादित्वावधारणे.


  • 'पदभेदे' इति गपुस्तके पाठः.