पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५
पुरुषकारोपेतम् ।

सकर्मकत्वमन्येष्वपि भाषार्थेषुन्नेयम् । अत्र चोत्तरत्र च भाषार्थग्रहणे 'भासार्थ इत्येक' इत्यपि द्रष्टव्यम् । तथा च 'पटपुटे 'त्यादौ 'वृतु वृधु भाषार्था' इत्यन्ते दण्डकधातुपाठे मैत्रेयरक्षितः-'भासार्थादीप्त्यर्था इत्येक' इति । क्षीरस्वामी च-'भासा दीप्तिरर्थो येषां ते भासार्थाः' इति । 'भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः। स्त्रीवेषधारी पुरुष' इत्यत्र कविकामधेनुकारश्च दण्डकधातुमेवाश्रित्याह- 'कुंसिर्भासार्थः । स्त्रीरूपधारित्वाद् भ्रुवा कुंसयति पुरुषत्वमिति भ्रुकुंसः' । इति । तत्र* भासार्थपक्षे सकर्मकत्वे यत्नः कर्तव्यः । धनपालः पुनरन्यथैवामुं दण्डकं व्याचष्टे- 'एते पटादयः सर्वे णिचमुत्पादयन्ति । अन्ये च ये भासार्था धातवः, ते च णिचमुत्पादयन्ति' इति । अत्र चाञ्जसैवानाञ्जस्ये सत्यव्या(प्तिप्र?)प्त्यपनीत्याशैव शरणम् ॥

 अङ्क लक्षण इत्यस्य भवेदङ्कयतीति णौ।
 इदितस्त्वङ्कते तत्र कुटिलायां गतावकेत् ॥ ४१ ॥

  'अकि लक्षणे' । तत्रेति लक्षणे । 'अक अग कुटिलायां गतौ' ॥

 णिचि बुक्कयतीति स्याद् भाषणे शपि बुक्कति ।

  'बुक्क भाषणे' । 'बुक्कनं श्ववृकध्वान' इति तु यादवप्रकाशः । 'बुक्क आभाषण' इति शाकटायनः । अन्त्ये तु क्षीर-


१. स च भासधातौ णिजर्थान्तर्भावना. २. धनपालव्याख्याने.. ३. पूर्वापरधातुष्वास्थितस्यार्थनिर्देशस्य पटादिषु परं त्यागानौचित्याद् धनपालव्या- ख्यानस्यायुक्तत्वे सतीत्यर्थः. ४. 'बुक्कनं श्ववृकध्वाने भषणं भषितं शुनः' इति अन्तरिक्षकाण्डे शब्दाध्यायः.


'तत्र तु' इति गपुस्तके पाठः.