पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
दैवं

कर्मकादेव णिज् भवतीति मन्तव्यम् । असम्भाविकर्मकत्वे व्यावृत्तिः। आङः स्वाद एव सकर्मकादित्येके" । इति । तत्र च सम्भाविकर्मकत्वकथनेन सत्यसति वा कर्मणः प्रयोगे तत्सम्भवमात्रेण णिज् भवतीत्युक्तं भवति । “कर्मासम्भवः पुनरनेकार्थत्वेनार्थान्तरवाचितायां यथाप्रयोगं द्रष्टव्यः । क्षीरस्वामीत्वाह-'आङ् पूर्वात् स्वादतेः सकर्मकाण्णिज् भवति । अस्ति कर्म यस्य स सकर्मकः । आस्वादधातुर्णिचमुत्पादयति । ‘पय आस्वादयति' इति । धनपालश्च 'आस्वादयति क्षीरम्' इत्युदाहरन्नत्रैवानुकूलः। तत्र चाभिविधिपक्ष एव युक्तः प्रत्यवभासते, इहाप्याङः पूर्वापरेष्विवाभिविध्यर्थताया एवौचित्यात् । 'आ कुस्मादिति हि पूर्वत्राभिविधावाङ् दृष्टः । 'आधृषाद्वेति' 'आगर्वादिति च समनन्तरमेवैवं द्रक्ष्यते । तत्रायमपि तन्मध्यपाती तच्छायश्चाङ् तदर्थ एव व्यक्तमवभासते । तदत्र पक्षान्तरं व्याचक्षाणानामाशयश्चिन्त्यः । अन्ये तु 'आस्वदः सकर्मकाद्' इत्याहुः । 'ग्रस ग्रहण' इत्यारभ्य 'व्ष्वद आस्वादन' इत्येवमन्ता ये धातवः पठ्यन्ते, तेथा च 'पूरी आप्यायने प्वदास्वाद इति श्लोकधातुपाठः, संवरण इति तु क्षीरस्वामिधनपालशाकटायनाः, 'ष्वद आस्वादन' इत्यत्र च क्षीरस्वामी- 'स्वदते', चुरादौ 'स्वद संवरणे स्वादयति' इति, तेभ्य एतेभ्यः सम्भविकर्मकेभ्य एव णिज् भवतीत्यर्थः । एतच्च


१. सकर्मकः प्रयुज्यमानकर्मक इत्यर्थः. तेनाप्रयुज्यमानकर्मको व्यावर्त्यते. २. क्षीरस्वामिपक्षे एव. ३. आङ्विषये. ४. 'ये' इत्यस्य तेभ्य एतेभ्य' इति वक्ष्यमाणेनान्वयः. ५. स्वदधातोर्हस्वोपधत्वे प्रमाणमर्थविषयकपक्षभेदानुग्राहि दर्शयति-तथाचेत्यादि. ६. भ्वादौ.


+न्ता धा' इति घपुस्तके पाठः. 'कर्मसम्भवः' इति गपुस्तके पाठः.