पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
दैवं

 तत्रेयर्त्यृच्छतीत्यर्त्तेः श्नि गतौ स्यादृणाति तु ॥३०॥

  तत्रेति पूर्वोक्त एव विषय इत्यर्थः । तेन गतौ श्लुशपोः अर्त्तेः 'ऋ सृ गतौ' 'ऋ गतिप्रापणयोरि'त्यनयोरियर्त्ति ऋच्छ- तीति भवतीति वाक्यार्थः । तत्र चाद्ये शफ्लुद्विर्वचनारेदत्वहला- दिशेषेषु कृतेषु 'अर्तिपिपर्त्योश्च' (७-४-७७) इत्यभ्यासस्येत्वम् । 'अभ्यासस्यासवर्ण' (६-४-७८) इतीयङादेशः । ततो गुणः । अस्य चार्त्तेर्घृप्रभृतित्वेऽपि भाषायामपि प्रयोग इष्यते । तच्च 'बहुलं छन्दसि' (७-४-७८) इत्येवेत्वे सिद्धे अर्त्तेः पृथगित्ववि- धानसामर्थ्यादवसीयत इति ‘अर्त्तिपिपर्त्योश्च' (७-४-७७) इत्यत्र भाष्ये स्थितम् । अन्त्ये 'पाघ्राध्मा' (६-३-७८) इति ऋच्छादेशः । 'ऋ गतौ' । ल्वादिः ॥

 हिंसाकरणयोः श्नावौ कृणोति कृणुते कृञः।
 करोति कुरुते द्वे द्वे सम्पयेते पदे क्रमात् ॥ ३१ ॥

  'कृञ् हिंसायाम्' । 'डुकृञ् करणे' । तथा 'कृञ् करणे' इति भूवादौ क्षीरस्वामी । करोति कृणोति करतीति वा कारु- रिति च कस्यांचिदुणादिवृत्तौ दृश्यते । न्यासकारस्तु 'कः करत्- करतिकृधिकृतेष्वनदितेः' (८-३-५०) इत्यत्र करतौ व्यत्ययेन शपं ब्रुवन्नैतमनुमन्यते ॥

 भक्तौ वृणीते वरणे वृणोति वृणुते वृञः।
 वृञ आवरणे वा णौ वारयेद् वरते वरेत् ॥ ३२ ॥

'वृङ् सम्भक्तौ । क्र्यादिः । 'वृञ् वरणे' । स्वादिः । 'वृञ्


१. 'व्यत्ययो बहुलम्' (३-१-८५) इति विकरणव्यत्यासेन. २. भूवादिम् .


  • 'च' इति कपुस्तके पाठः. म्बध्येते' इति खगपुस्तकयोः पाठः.