पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
पुरुषकारोपेतम् ।

  'धृङवस्थाने' । तुदादिः । ' रिङ्शयग्लिङ्क्षु' (७-४-२८) इति रिङ् । इयङादेशः। 'धृङवध्वंसने' । आविध्वंसन इति क्षीर- स्वामी । अपरेऽप्येवं बहवः । 'धृञ् धारणे । 'धृ धारणे' इत्यपि चुरादौ क्षीरस्वामी । तत्र धारयति धारयते । 'चुरादेराकृतिगण- त्वाद् धारयती'ति हेमचन्द्रः । न्यासे तु 'धारेरुत्तमर्ण' (१-४-३५) इत्यादिषु ध्रियतेर्हेतुमण्णिच्येव धारिर्व्युत्पाद्यते । 'षिद्भिदादि- भ्योऽङ्' (३-३-१०४) इत्यत्र 'धारा प्रपातन इति वक्तव्यम् । धृतिरन्या' इति भाष्यम् । तत्र च धृतिरन्येति ब्रुवता 'ऋदृशो- ऽङि गुणः' (७-४-१६) इति गुणे कृते दीर्घत्वनिपातनेन धरतेरेव धारेत्यभिप्रेयते, न पुनः समानार्थत्वेऽपि धारयतेः । यदि च सोऽपि चुरादिष्वपठिष्यत, धारणान्येत्येवावक्ष्यत; कृतं निपात- नक्लशेन॥

 गतौ ससर्ति सरति श्लुशपोर्धावति क्वचित् ।

  'ऋ सृ गतौ' घृप्रभृतित्वाच्छान्दसोऽन्त्यः। स च सिस- र्तीति दृश्यते । प्र बाहवा पृथुपाणिः सिसर्ति' इति । 'सृ गतौ' । 'सर्त्तेर्धावादेशो वेगितायां गतौ' इति वार्त्तिकेन सञ्जातवेगायां गतौ शपि धौभावः । क्षीरस्वामी तु चुरादौ 'घृ स्रावण' इति पठित्वा “ 'घृ सृ आवरणे' इति पूर्वे पेठुः । 'घर स्रावणे' इति दुर्ग" इति । सरतिसिसर्त्योश्च स एवाह --चुरादौ सारयति' इति॥


१. तथा ब्रुवता धारयतेरेव धारेत्यभिप्रैष्यतेत्यर्थः. एवं तु वृद्ध्यैव णिनिमि- त्तया दीर्घत्वस्य सम्पत्तेर्निपातक्लेशोऽपि परिहृतो भवतीत्याह-कृतमिति. २.

विशेषे. स च वेगिता गतिः. ३. आद्यन्तु समनन्तरं व्याख्यास्यते.