क्षीरस्वामी-"रेषणं हिंसाशब्दः । रवते । अदादौ ' शब्दे
रौति" इति, यथा चादादौ " शब्दे । रौति । भ्वादौ 'रुङ्
गतिरषणयोः' रवत" इति, तथा चायं पाठो नैवास्तीति गम्यते ॥
यावयेत जुगुप्सायां मिश्रणे यौति बन्धने ।
युनाति च युनीते च
'यु जुगुप्सायाम्' । चितादित्वात् तङ् । यदाह - 'आ- कुस्मादात्मनेपदी' इति । 'चित संचेतन' इत्याद्याः 'कुस्म' इत्य- न्ता धातव आत्मनेपदिन इत्यर्थः । “ “युज कुत्सायाम्' इत्ये- के । योजयते” इति क्षीरस्वामी । 'यु मिश्रणे' । अदादिः । 'युञ् बन्धने' । क्र्यादिः ॥
-णृ स्तवने' तुदादिर्दीर्घान्तः । तथा च 'गाङ्कुटादि' (१-२-१) सूत्रे 'नूत्वा धूत्वा' इति भाष्यम् । ‘णु स्तवने' । अदादिः ॥
प्रेरणे सुवति प्राणिप्रसवे सूयते भवेत् ।
प्राणिगर्भविमोकेऽर्थे सूते शे श्यनि शब्लुकि ॥ २५ ॥
'पू प्रेरणे' । 'पूङ् प्राणिप्रसवे। अप्राणिप्रसव इत्येके । तथा च क्षीरस्वामी प्रसूनं पुष्पामिति निष्ठानत्वमुदाहृत्याह -'अत एवाप्राणिप्रसव इत्याहुः' इति । न्यासकारस्तु 'स्वरतिसूतिसूयति- धूञूदितो वा' (७-२-४४) इत्यादिषु पूङ्विषयेषु प्राणीत्येव पपाठ। धातुपाठाश्चैवमेव बहुलमुपलभ्यन्ते । यथा 'प्रसूनं कुसुमं सुमम्' इत्यत्र कविकामधेनुः- पूङ् प्राणिप्रसवे' । क्षपणकमतेन' वृक्ष-
+ मते' इत्येव घपुस्तके पाठः.