पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
दैवं

स्यापि प्राणित्वम् । 'स्वादय ओदित' इति क्तस्य नत्वम्" इति, तथा 'अत एवे’त्युक्तयुक्तिश्च प्रत्युक्ता । तत्र च क्षपणक- ग्रहणं तेषामहिंसायां सूक्ष्मेक्षिकाभिमानात् ; न पुनरपरेषामनभि- मतोऽयमर्थ इति । तच्चैतत् प्राणित्वमयुक्तम् , यतो लोक इव व्या- करणेऽपि प्रसिद्धिवशादेव तत्र तत्र प्राण्यप्राणिव्यवस्थास्थीयते । लोके चाप्राणित्वं वृक्षादेः प्रसिद्धम् । तथा च 'ऊङुत' (४-१-६६) इत्यत्र 'अप्राणिजातेश्चारज्ज्वादीनाम्' इति वार्तिकं प्रकृत्यालाबूः कर्कन्धूरित्युदाहरता भाष्यकारेणापि स्थीयते । अत एव मैत्रेयर- क्षितेन 'प्राणिग्रहणमतन्त्रम् । अप्राणिप्रसवेऽपि वर्तते । प्रसून धान्यमिति' इत्युक्तम् । 'पूङ् प्राणिगर्भविमोचने' ।

 धूनयति धवति धवते धुनोति धुनुते धुनाति च धुनीते।
 धूनोति धूनुते स्युः पदानि कम्पे विधूनने धवति ॥२६॥

  'धूञ् कम्पने । युजादिः प्वादिः स्वादिश्च । तत्राद्ये प्रीञ्वत् त्रैरूप्यम् । क्षीरस्वामी तु 'धावयतीत्येके' इति । मैत्रेयरक्षिताद- यश्च ह्रस्वान्तं चान्त्यमाहुः । तथा च 'घृसृधुवृषिप्रच्छिज्वरित्व- रिभ्यः कित्' इति धुञो धुनिशब्दो भोजदेवेन व्युत्पादयाश्चक्रे । एभ्यो धातुभ्यः संज्ञायां गम्यमानायां निन् प्रत्ययो भवति । स च किदित्यर्थः । घृणी राश्मिः । सृणिरङ्कुशः। धुनिनदी । वृष्णी राजा, यद्वंश्या वृष्णयः । पृश्निरल्पतनुः । ‘ग्राहिज्या' (६-१-१६)


१. आत एवाप्राणिप्रसव इत्याहुः' इति क्षीरस्वाम्युक्तयुक्तिः, चकाराद् 'अ- प्राणिप्रसव' इति पाठश्च. २. लोकप्रसिद्धिर्नातिलङ्घयते इत्यर्थः. ३. प्राञ्- धातुर्विंशश्लोके विवृतः. ४. एकेषां मते नुग्विधौ ‘धूञ्मीणोरिति पाठात् प्रीणा-

तिसाहचर्येण क्रैयादिकस्यैव धूञो ग्रहणं, न तु चौरादिकस्य.