पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
दैवं

  'कुङ् शब्दे' । भ्वादिस्तुदादिश्च । अत्रान्त्ये 'गाङ्कुटादि' (१-२-१) सूत्रे हरदत्तः- “आकूतमिति प्रयोगदर्शनात् ' कूङ्श- ब्द' इति दीर्घान्त" इति । 'अन्ये कूङिति पठन्ति । आकूत- मिति प्रयोगदर्शनाद्' इति धनपालः । 'ऊकारान्तोऽप्यङ्गीचक्रे, आकूतम् आकूत्यै इति' इति भूवादि (१-३-१) सूत्रे सुधाकरः । कुङ् कूङिति च शाकटायनः । 'कु शब्दे' । अदादिः । तदेवं यद्यप्येते शब्दमात्रे पठ्यन्ते, तथाप्यर्थविशेषः प्रयोगवशादाश्री- यते । तथा च 'न कवतेर्यङि' (७-४-६३) इत्यत्र न्यासः- 'सत्यपि शब्दार्थत्वे भिद्यत एवैषामभिधेयम् । तथा च कवतिर. व्यक्तशब्दे वर्तते । उष्ट्रः कोकूयत इति । कुवतिरार्तस्वरे । कुवते पीडित इति । कौतीति शब्दमात्र' इति । क्षीरस्वामिमैत्रेयर- क्षितौ च 'कु शब्द' इत्यत्रैतामेव व्यवस्थामातस्थाते । सर्वत्रैवं प्रयोगविशेषादर्थविशेषोऽप्यनेकार्थवदास्थेयः । न पुनः पाठ एव शरणम् ॥

रवते रौति शब्दने ॥ २३ ॥
 

  'रुङ् गतिरेषणयोः' । अत्र च रेषणस्य वृकशब्दत्वा- च्छब्दन इत्येकं नेतव्यम् । एतच्च गतेरप्युपलक्षणम् । 'रुङ् शब्द' इत्येव तु पाठे सति शक्यमक्लेशेन नेतुम् । यथा त्वत्र


१. अत एतामेव तदनुसारी देव आदद्रे. २. न केवलमर्थभेदः, किन्तु अर्थैक्येऽपि तद्गतविशेषोऽप्यवसातव्यः प्रयोगभेदात् . ३. रेषणपरतया सम- र्थनीयम् .


__+'हि' इति गपुस्तके पाठः. *'कौतिः शब्द' इति गपुस्तके पाठः. क्षीरस्वामी मैत्रेयरक्षितश्च' इति घपुस्तके पाठः. र्थत्ववदास्थेयः' इति

गपुस्तके पाठः.