पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
दैवं

  'ली द्रवीकरणे' इति युजादौ पठितस्य लियो विभाषा लीयतेः' (६-१-५१) इत्यात्वाभावपक्षे 'लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने' (७-३-३९) इति नुकि सति लीनयेदिति भवति असति तु लाययेदिति । णिजभावे तु लयेदिति । आत्वपक्षे पुनर्लुगागमे सति लालयेदिति; तदभावे तु पुकि लापयेदिति । तत्रात्वमयुक्तं विभाषा लीयतेः' इत्यत्र 'लिनातिलीयत्योर्यका निर्देश' इति भाष्येण युजादिलिय आत्वाभावात् । देवेन तु मैत्रेयरक्षितविस्रम्भादेतदुक्तम् । 'लीङ् श्लेषणे' । दिवादिः । 'ली श्लेषणे' । क्र्यादिः । 'प्वादीनां ह्रस्वः' (७-३-८०) इति ह्रस्वः ॥

 स्रवणे रीयते रीङो रिणाति गतिरेषयोः ॥ १८॥

  रीङ् स्रवणे' । दिवादिः । री गतिरेषणयोः'। प्वादिः । रेषणं वृकशब्दः । यदाह यादवप्रकाशः - वृकस्य रेषणं रेषा हेषा ह्रेषा च वाजिनाम् । बृंहितं करिणां शब्दः' इति ॥

 व्रीणाति वरणे तत्र व्रीङो व्रीयेत तु श्यनि ।

  'व्री वरणे' । क्र्यादिः । यथा पुनः 'प्वादीनां ह्रस्वः' (७- ३-८०) इत्यत्र वृत्तिः- "प्वादयः क्र्यादिषु पठ्यन्ते 'पूञ् पवन' इत्यतः प्रभृति 'प्ली गतौ वृद्' इति यावत् । केचिदिच्छन्ति वृत्करणमेतत् प्वादीनां ल्वादीनां च परिसमाप्त्यर्थमिति ।


१. अतो लालयेल्लापयोदिति रूपे युजादिलियोऽप्रामाणिके इत्यर्थः. लीनये- दित्यपि 'लीलो रित्यत्र लासादृश्यादस्वार्थणिज्विषय एव लीधातुर्गृह्यते, नतु युजा- दिरित्येतदनाश्रित्य समर्थनीयम् . २. येन प्रकारेण. वृत्तिरित्यनेनास्य सम्बन्धः. अस्य च यथाशब्दस्य 'तथास्यापि' इति वक्ष्यमाणतथाशब्देन प्रतिनिर्देशः.

३. काशिका.