पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
पुरुषकारोपेतम् ।

अपरे तु ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमिच्छन्ति आग- णान्ताः प्वादय" इति, तथास्यापि प्वादित्वं पक्षे स्यात् । यथा तु 'ज्ञाजनोर्जा' (७-३-७९) इत्यत्र भाष्यं-“दीर्घोच्चारणं किम. र्थम् । अतो दीर्घो यञि' (७-३-१०१) इति दीर्घत्वं भविष्यति" इति, तथैतन्नेष्यते । यदि हि वृत्त्युक्तरीत्याक्र्यादिगणान्तात् प्वादयः, तदा जानातेरपि प्वादित्वेन ह्रस्वे प्राप्ते तद्व्यावृत्त्यर्थमेव दीर्घोच्चारणं स्यादिति कैमर्थक्यं न स्यात् । तस्मादावृत्करणादेव प्वादयः । वृत्तिश्च यावदित्यन्तात्रैवाञ्जस्यं धत्ते । वृत्कृतं चैवं वृत्तः समाप्तोऽयं प्वादिर्ल्वादिश्च क्र्याद्यवान्तरगण इत्यर्थकं, 'पूञ् पवने' 'लूञ् छेदने' इत्यदूरपाठादुभयोरपि गणयोरवध्यपेक्षाया- श्चाविशेषात् । ल्वाद्यानन्तर्यमतन्त्रम् । अतश्च व्रियो वृत्करणात् परत्वेन प्वादित्वाभावात् व्रीणातीति साधूक्तं देवेन । 'व्रीङ् वृ- णोत्यर्थे । स च वरणम् । अन्योऽप्यर्थो यथाप्रयोगं गम्यः ॥

 प्रीङ् प्रीतौ प्रीयतेऽप्रीणात् प्रीणीते तर्पणे ञितः ॥ १९॥
 अणौ यो ञित्त्वसाफल्यात् प्रीणयेत् प्रयते प्रयेत् ।।

  'प्रीङ् प्रीतौ । प्रीयते । दिवादिः । 'प्रीञ् तर्पणे कान्तौ च' । क्र्यादिः । कान्तिः कामना । 'प्रीञ् तर्पणे' । युजादिः। तत्र अणावित्यादेरेषोऽर्थः-यौ तु तर्पणे जितः प्रीणयेदित्यादि स्याद्; न च ञित्त्वादेव प्रयत इतिवत् प्रीणयेतेत्यपि स्यात्, अण्यन्ता-


१. तेन प्रकारेण पक्षद्वयपरकाशिकारीत्येत्यर्थः. २. आङः प्रश्लेषोऽत्र बोध्यः. ३. एतच्चावश्यकम् अङ्गवृत्तपरिभाषाज्ञापनाय. ४. अत्रैव आवृत्- करणात् प्वादित्व एव । 'अन्यथा 'प्ली गतौ वृदिति यावद् ' इत्ययमंशः केचिदि- च्छन्ती'त्यादिना वक्ष्यमाणत्वान्न वक्तव्यः स्यात् । उक्तश्चासौ स्वानुमतत्वसूच-

नार्थ इत्याभिप्रायः. ५. वृत्करणम् .