पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
पुरुषकारोपेतम् ।

'इक् स्मरणे । अदादी । 'इङिकावध्युपसर्गं न व्याभिचरतः' इत्याहुः । 'तदधीते तद्वेद' (४-२-५९) 'अधीगर्थदयेशां कर्मणि' (२-३-५२) इति निर्देशश्चैवमेव युज्यते ॥

 सिनोति सिनुते बन्धे सिनीते च सिनाति च ।

  'षिञ् बन्धने' । स्वादिः क्र्यादिश्च ॥

 ईषद्धासे स्मयेतेति स्माययेतेत्यनादरे ॥ १५॥

  'स्मिङ् ईषद्धसने' । 'स्मिट अनादरे । स्मिङित्येके' इति मैत्रेयरक्षितः । तत्र च स्मिङ्पक्षेऽवयवद्वारा ण्यन्तस्यापि ङित्त्वादात्मनेपदम् । अवयवे हि कृतं लिङ्गं समुदायस्य विशे- षकं भवति, तच्चेत् तत्राकृतार्थं; यथा सक्थनि कर्णे वा कृतं गोः । 'अट्ट स्मिट अनादर' इति तु टवर्गान्तकाण्डे शाकटायनः। क्षीरस्वामी त्वाह-" "स्निट स्नेहने' स्नेटयति । स्मिटेत्येके । 'स्फिट अनादरे' स्फेटयति । संस्फेटस्तुमुलं युद्धम्” इति ॥ .

 श्रीणाति पाके श्रीणीते सेवायां श्रयते श्रयेत् ।

  श्री पाके' । क्र्यादिः । श्रिञ् सेवायाम् ॥

 मीञो मीनाति मीनीते हिंसायां मीयते ङितः ॥ १६ ॥
 मिनोति मिनुते स्वादेर्गतौ मयति माययेत् ।

  'मीञ् हिंसायाम्' । क्र्यादिः । 'मीङ् हिंसायाम्' । दिवादिः। 'डुमिञ् प्रक्षेपणे' । 'मी गतौ'। युजादिः । मताविति क्षीरस्वामी।

 यौ द्रवीकरणेऽनात्वे लीनयेल्लाययेल्लयेत् ॥ १७ ॥
 लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात् ।


१. अत एव 'कलिसस्फेटसंयुगा' इत्यमरकोशे संस्फोटपाठस्यायुक्तत्वमाह

क्षीरस्वामी तद्व्याख्यायाम् . २. आधृषीय इत्यर्थः.