पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
दैवं

कल्पते शपि सामर्थ्ये कल्पयत्यवकल्कने ।
अदन्तस्य कृपेर्णौ तु दौर्बल्ये कृपयोदिति ॥ १३५ ॥

क्षम्पेः क्षम्पयति क्षान्त्यां प्रेरणे क्षपयेदिति ।
दिवादेः कुप्यति क्रोधे भाषार्थे कोपयेत् कुपेः ॥ १३६ ॥

आपयत्यापतीत्यापेर्यौ वा णौ लम्भने पदे ।
व्याप्त्यर्थस्यास्य तु स्वादेराप्नोतीति पदं भवेत् ॥ १३७ ॥

स्पर्शे चुपति मन्दायां गतौ तु शपि चोपति ।
शपि तोपति हिंसायां तत्रैव तुपतीति शे ॥ १३८ ॥

तत्रैव शशपोस्तुम्पेदर्दने तुम्पयेण्णिचि ।
लुम्बयेत् तुम्बयेदर्दे शपि लुम्बति तुम्बति ॥ १३९ ॥

हिंसायां वक्रसंयोगे चुम्बयेच्चुम्बति क्रमात् ।
णिचि कुम्बयतीति स्याच्छादने शपि कुम्बति ॥ १४० ॥

गार्ध्ये लुभ्यति मोहार्थे तुदादेर्लुभतीति शे ।
दृभी भये विभाषा णौ स्यातां दर्भति दर्भयेत् ॥ १४ १ ॥

अनीदितश्च सन्दर्भे दृभति ग्रन्थ ईदितः ।
स्तभ्नाति स्तभ्नुयात् स्तुभ्नात्यपि स्तुभ्नोति सौत्रयोः ॥ १४२ ॥

स्तम्भते प्रतिबन्धार्थे स्तम्भेऽर्थे स्तोभते शपि ।
हिंसाभाषणयोः शोभेच्छोभार्थे शुभतीति शे ॥ १४३ ॥

शोभते शपि दीप्त्यर्थे शुम्भेरन्यत् तङः समम् ।
क्षुभ्नाति क्षोभते क्षुभ्येदिति सञ्चलने क्षुभेः ॥ १४४ ॥

नभ्येन्नभ्नाति नभते हिंसायां तत् तुभेः समम् ।
जृम्भणे जम्भते याभे जम्भेन्नाशे तु जम्भयेत् ॥ १४५ ॥

प्रेरणे लाभयेल्लाभेः प्राप्त्यर्थे लभते शपि ।
अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा ॥ १४६ ॥

गत्यादावमतीति स्याद्रोगे स्यादामयत्यमेः ।
चलने भ्रमति भ्रम्येच्छमादेर्भ्राम्यति भ्रमेत् ॥ १४७ ॥ .