पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
दैवम् ।

राध्नोति संसिद्ध्यर्थे श्नौ राध्येद् वृद्धावकर्मकात् ।
ऋध्नोतीति भवेद् वृद्धावृध्यतीत्यत्र तु श्यनि ॥ १२२ ॥

गृधेर्गृध्यति काङ्क्षायां गर्धेस्तत्रैव गर्धयेत् ।
छेदने पूरणे चार्थे वर्धेर्वर्धयतीति णौ ॥ १२३ ॥

तदेव रूपं भाषार्थे वृधेर्वृद्धौ तु वर्धते ।
याचने वनुते शब्दे संभक्तौ च वनेदिति ॥ १२४ ॥

क्रियासामान्यवृत्तेश्च तदेव स्यात् पदं मितः ।
स्तम्भे मानयते ज्ञाने मन्यते मनुते पदम् ।। १२५ ।।

पूजायां मानयेन्मानेद् यौ मीमांसेत तङ्मनोः ।
ध्वनयेदित्यदन्तस्य ध्वनेः शब्दे ध्वनेच्छपि ॥ १२६ ॥

शब्दे च देवशब्दे च स्तनति स्तनयेत् क्रमात् ।
श्रद्धोपकरणार्थस्य तनेस्तनति तानयेत् ।। १२७ ।।

दैर्ध्यार्थस्योपसर्गात् तु विस्तारे तनुतेऽतनोत् ।
दाने सनोति सनुते सम्भक्तौ तु सनेदिति ।। १२८ ।।

णौ गोपयति भाषार्थे निन्दायां से जुगुप्सते ।
गोपायेद्रक्षणे त्वाये व्याकुलत्वे तु गुप्यति ॥ १२९ ॥

धूपायतीति सन्तापे भाषार्थे धूपयोदिति ।
क्षिप्यति प्रेरणे शे तु क्षिपति क्षिपते पदे ॥ १३० ॥

सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत् ।
ऐश्वर्ये वा दिवादित्वात् तप्यते तपतीति च ॥ १३१ ॥

आक्रोशे शप्यते शप्येच्छपते शपतीति च ।
उपालम्भे शपेर्वाक्यात् तङि स्याच्छपते पदम् ॥ १३२ ।।

तृप्नोति तृप्यतीत्येते प्रीणने श्नौ श्यनि क्रमात् ।
तृप्तावन्यतरस्यां णौ स्यातां तर्पति तर्पयेत् ।। १३३ ॥

सङ्घाते डेपयेतेति क्षेपे डिपति डिप्यति ।
डेपयदिति चत्वारि णिचि शे श्यनि णौ डिपेः ।। १३४ ॥