पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
दैवं

  कथं पुनरत्र प्रकरणे सर्वत्रापि पुनः पठिता धातवो व्युत्पाद्यन्ते । त(दे?)थैव पुनः पाठो भवेत, यथा भूप्रभृतयः । येषां पुनर्नुमादिना भिन्नरूपता, कथमिव तेषां पुनः पाठो भवेत् । तत्र नुमा तावत् बृंहति बर्हतीत्यादिषु अनन्तरोदितेष्वेवासौ दृश्यते । अत्र हि अन्यश्च वृहिरिति सकृदेव तयोः पाठः प्रस्फुटः । अथापि बृंहतिबृहयत्योरत्र पुनः पाठो भविष्यति । तथापि कथं वृहिबृंह्योः 'इदितस्त्वङ्कते तत्र' (४१श्लो) इत्यादिषु च चरिष्यासि । न च तेष्वपि पाठावस्थायां नुमभावाद्भवेदेव पुनः पाठ इति साम्प्रतं, नुंविधावुपदेशिवद्वचनेन धातुग्रहणब- लेनैव वा नुमोऽपि पठितकल्पत्वात् । अथापि धातुपाठसिद्धं रूपमनूद्यैतत्फलवचनप्रतिज्ञानाद् भवत्येवात्रापि नुंविधुरेण पठि- तेन रूपेण पुनः पाठः । तथापि बृहिबर्ह्योः , 'अङ्क लक्षण' (४१श्लो) इत्यादिषु च का वार्ता । एवमन्यत्राप्येवंविधे . 'दो द्यति (४ श्लो) इत्यादौ, 'क्षिणोत्यावगुणे क्षिणोः' (१३ श्लो) इत्यादौ च भिन्नरूपधातुपाठफलापदर्शने पर्यनुयोगं प्राप्तं प्रत्याह-

 नुमादिनान्यभावेऽपि सादृश्यात् केऽप्यवक्षत ।

  यत् क्वचिन्नुमादिनान्यत्वेऽपि केऽपि धातव उक्ताः केषां चित् पुनःपाठफलमुक्तमिति यावत् , तच्च यथादर्शनं मिथस्तेषां सादृश्याद्युक्तमेव । ततश्च ‘पठितस्ये त्यस्याः प्रतिज्ञायाः कचिद-

१. भिन्नरूपता. २. इतः प्राक् 'अन्यो बृंहिः' इत्यपोक्षतमिति भाति. ३. गतिं वक्ष्यसीत्यर्थः. ४. एतच कुण्डा हुण्डेत्यादौ 'गुरोश्व हलः' (३-३०

१०३) इत्यप्रत्ययार्थमावश्यकम् .