प्यन्यथात्वमशङ्कनीयमेवेत्यर्थः । अत्र च पूर्वोक्तरीत्या नुमान्य- भावस्यासम्भवाद् आदिशब्दोपात्त एव तात्पर्य द्रष्टव्यम् । नुं- ग्रहणं वा नकारोपलक्षणम् । नुमिति नकारस्य पूर्वाचार्यसंज्ञेति च 'न धातुलोप आर्धधातुक' (१-१-४) इत्यत्र कैयटः॥
मया चात्र 'चौ मित्त्वेऽपीदमेव' (८ श्लो) 'यौ द्रवीकरणे- ऽनात्वे' (१७ श्लो) इत्यादौ चुशब्दयुशब्दौ व्यवहृतौ श(ब्दा- काशे?)ब्दैकदेशलक्षणान्यायेन चुरादियुजादिपरौ वेदितव्यौ 'ब- ष्कयासे' 'नब्विषयस्यानिसन्तस्य' इत्यादौ सशब्दनप्छब्दाविव समासनपुंसकपरावित्याह-
चुरादिश्चुर्युजादिर्युः स यस्माण्णिज्विभाषितः ॥ १९९ ॥
यस्माद्गणाद् 'आघृषाद्वा' इति णिज्विकल्पितः, स युजा- दिर्युः । युजादेणिज्विकल्पाव्यभिचाराद्युजादिरित्येव वाच्ये स इत्यादिवचनं युशब्दयुजादिशब्दाभ्यामिह व्यवहारस्य लीनये- ल्लयेदित्याद्युदाहृतणिज्विकल्पनिर्वाहार्थतोपदर्शनेन चुरादिभूवादि- धातुद्वयशङ्काप्रसङ्गव्युदासार्थम् । 'इत्यत्र परिभाषितम्' इत्येव च क्वचित् पठ्यते । श्लोकश्वायं न्यायसिद्धार्थतयानावश्यकत्वा- शयेन वृद्धिसंज्ञादिवदादावेव न निवेशयाम्बभूवे ॥
ननु च 'कु शब्दे तारे' इत्येवंजातीयकाः केचिदनुक्ता अपि सरूपधातवः सन्त्येव । तत् कथं यथोक्ता प्रतिज्ञा निरङ्कुशं निरवाहीत्यत आह-
सरूपा धातवः केचि- |
१. धातुपाठसिद्धं रूपमनूद्यैतत्फलवचनं देवेन प्रतिज्ञातमिति विवरणरीत्या.
२. इदमुत्सादि (४-१-८१) गणे द्रष्टव्यम्. ३. चतुर्थपाद इति शेषः.