पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
पुरुषकारोपेतम् ।

अबहिंदिति । यथादौर्गमेव चान्द्राः । अनुदात्तेत्सु च स एवाह- 'बर्ह बल्ह प्राधान्ये । (मुदिञ्?) घञ् बर्ह बल्हम् । चुरादौ तु भाषार्थौ । बर्हयति बल्हयति' इति । 'वर्ह वल्ह परिभाषणहिंसा- छादनेषु' इति च । मैत्रेयरक्षितः पुनः 'वर्ह वल्ह प्राधान्ये । बर्ह बल्ह परिभाषणहिंसाछादनेषु' इत्यर्थव्यत्ययेन पपाठ । नैव च तृतीयं धनपालस्य 'वर्ह वल्ह प्राधान्ये । वर्ह वल्ह परिभाषण- हिंसाछादनेषु । छादयत्यनेनेति वर्ह घञ्' । इति । शाकटाय- नोऽप्यत्रैव पाठेऽनुकूलः । [भाषाविशेषार्थत्वात् ?तेत्र च प्रब- र्हार्थानुकूल्यादाद्यः पाठो युक्तः । 'प्रवल्हिका प्रहेलिका' इति चात्रैवानुकूलः, भाषाविशेषार्थत्वात् प्रवल्हेः । तथा च बह्वृच- ब्राह्मणं-'प्रवल्हिकाः शंसति । प्रवल्हिकाभिर्वै देवा असुरान् प्रव- ल्ह्याथैनानत्यायन्' इति । व्याकृतं चैतत् गोविन्दस्वामिना- "प्रवह्निकाः प्रहेलिकाः 'विततौ किरणौ द्वौ' इति षडनुष्टुभः । प्रव- ल्ह्य अनृतं भाषित्वा" इति । सर्वथापि बर्हत इत्याद्यपि काम- मूह्यम् । सर्वत्रैवं तत्तद्न्थगतास्तत्तत्पाठभेदादयो (यथा?) द्रष्ट- व्याः, युक्त्यादिभ्यश्च विवेक्तव्याः । बृहि बर्ह भाषार्थो । 'ब्रूस बर्ह हिंसायाम्' इत्यस्यापि बर्हयेत् । इतिः पुनः प्रकारार्थः प्रक- रणसमाप्त्यर्थश्च । 'पठितस्य पुनः पाठे' इति यदुपक्रान्तं, तदि- त्थमुपसंहृतमित्यर्थः॥

१. पवर्गतृतीयं बवर्णमित्यर्थः । एवं तु वर्ह वल्ह प्राधान्यपरिभाषणहिंसाछा- दनोष्विति शक्यं पठितुं धनपालस्य २. क्षीरस्वामिमैत्रेयधनपालपाठेषु त्रिषु मध्ये ३. प्राधान्यलक्षणोऽर्थः प्रबर्हशब्दस्यैव प्रसिद्धो, न तु दन्तोष्ठ्यवतः प्रवर्हश- ब्दस्येत्यभिप्रायः. ४. अमर इति शेषः, यादव इति वा. . ५. यथायथम्' इति पठनीयम् .. १. इदं पदमादर्शे नास्ति तथापि समाप्त्यर्थश्चेति चकारस्य,

'तदित्यमुपसंहृतम्' इति इत्थंपदस्य चोपपत्तये प्रक्षेप्तव्यमेवेति भाति.