चहं चहामिति चिण्णमुलोदीर्घविकल्पः । अदन्तत्वफलमग्लोपि- त्वेन 'सन्वल्लघुनि चङ्परेऽनग्लोप' (७-४-९३) इति सन्वत्त्वस्य 'दी| लघोः' (७-४-९४) इति दीर्घत्वस्य चाभावादचचहदिति ॥
मर्षणे सहते यौ तु साहयेत् सहति द्वयम् ।
श्यनि सह्यति श(क्या?)क्यर्थे
'षह मर्षणे । 'षह षुह श(क्या?)क्यर्थे' । क्षीरस्वामी तु षुहेत्येव पठित्वाह-'षह षुह शक्ताविति दुर्ग' इति । षुहेत्येव च धनपालशाकटायनौ ॥
अर्ह पूजायाम् ॥
स्नेहने स्नेहयेत् प्रीतौ स्निह्येद्
'ष्णिह स्नेहने' । स्निहेति क्षीरस्वामिधनपालशाकटाय- नाः । तदापि दन्त्यपरसादित्वात् णिहत्येव युक्तम् । ष्णिह प्रीतौ ॥
वृद्धौ भाषार्थविषये बृंहयेद् बर्हयेदिति १९८ ॥
'दृह दृहि बृह बृहि वृद्धौ' । 'वृहि शब्दे च' इति । (द्वयम् । यदाह क्षीरस्वामी इति?) वृहिर इति दौर्गाः। अबृहत्
१. एष दीर्घपाठो मूलपुस्तकेषु पुरुषकारे चैकरूपो दृश्यते । 'क्य' इति हस्व एव तु पठितुं युक्तो दुर्गानुसारात् शक्तः शक्यर्थत्वात् . २. अर्थश्वास्य चक्यर्थ एवेति षुहधातुस्थमाधवग्रन्थात् प्रतीयते, यत् स आह-'चक्यर्थस्तृति- रिति क्षीरस्वामिधनपालशाकटायनाः' इति.. ३. 'द्वयमाह क्षीरस्वामी' इति पाठः
सुकल्पो भाति.