धनपालस्तु 'पद+ सन्देशवचने पादयति पदति । १अन्यत्र प(द्य?) दयते' इति । वदि आभिवादनस्तुत्योरित्यस्य च वन्दत इति द्रष्टव्यम् ॥
'पदॢ गतौ' । दिवादिः कथादिश्च । आगर्वादित्वात् तङ् ॥
णौ देवशब्दे गदयेद् व्यक्तवाचि गदेच्छपि ।
'स्तन गदी देवशब्दे' । स च पर्जन्यध्वनिः । स्तनश्च गदिश्च स्तनगदी इत्यदन्तोपदेश एव गदिः । 'इक्श्तिपौ धातु- निर्देशे वक्तव्यौ' इतीक्प्रत्ययं कृत्वा अतो लोप इत्यल्लोपेनात्र निर्दिश्यत इत्याहुः । 'स्तन गद' इत्येव चन्द्रः । केचित्तु गदिमी- दितमेवेच्छन्तः कथादिकाण्डपाठबलादेवादन्तत्वं कल्पयन्ति । तथा च 'स्तन गदै इति' शाकटायनः । तन्मते तु '२कथादिपाति' इत्यक् । 'गद व्यक्तायां वाचि' ॥
नदत्यव्यक्तशब्दार्थे भाषार्थे नादयेदिति ॥ ११०॥
'णद अव्यक्ते शब्दे' । णद भाषार्थः । 'टुनदि' इत्यस्य नन्दतीति द्रष्टव्यम् ॥
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दते विन्दतीत्येवं लाभे वेदयते णिचि ॥ १११ ॥
'विद सत्तायाम्' । दिवादिरनुदात्तेत् । 'विद ज्ञाने' । अदादिः । 'विद विचारणे' । रुधादिः। 'विदॢ लाभे' । मुचादिः ।
१. कथादावागर्वीये २. लजिप्रसङ्गे विवृतमेतत्
+ धनपालवाक्यस्थानां पकाराणां स्थाने वकारा एव पठ्यन्ते घपुस्तके