पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
पुरुषकारोपेतम् ।

 इरित्पाठः पुनः प्रामादिकः । तथा च सर्वैर्लुङि आविददिति नित्य एवाङ् उदाजह्रे । 'विद चेतनाख्याननिवासेषु' । चितादिः। निपातनेष्विति धनपालशाकटायनौ ॥

 दैन्येऽर्थे खिद्यते खिन्ते परिघाते तु खिन्दति ।

  'खिद दैन्ये' । दिवादिः रुधादिश्च । 'खिद परिघाते' । मुचादिः । $'परितापे परितापनक्रियायामि'ति क्षीरस्वामी ॥

 स्तुत्यादौ मन्दते हर्षे माद्येन्मादयते णिचि ॥ ११२ ॥

  'मदि स्तुतिमोदमदस्वप्नगतिषु' । अत्र क्षीरस्वामी--- "स्वप्नेनालस्यं लक्ष्यते । चन्द्रस्तु 'मदि जाड्ये' इत्येवाह" इति । 'मदी हर्षे' । 'शमामष्टानाम्' (७-३-७४) इति दीर्घः । 'मद तृप्तियोगे' । चितादिः । तृप्तिशोधन इत्यन्ये । तथा च 'तृप्तिशोधने तर्पणशुद्धौ' इति क्षीरस्वामी । हर्षयति ग्लपयति वेत्याद्यर्थे तु मदयति मदयत इति भवति । 'मदी हर्षग्लेपनयोः'+ इति घटादौ पठ्यते । अत्रार्थे माद्यतिर्मित् स्यादित्यर्थः ॥

 यौ वा णावपवारणे छदत इत्येकं द्वितीयं छदे-
 दन्यच्छादयतिच्छदेदिति पुनः स्यादूर्जनेऽर्थे मितः ।
 यत्तुच्छन्दयतीति णौ नुमि पदं तत् संवृताविष्यते

  'छद अपवारणे' । स्वरितेत् । शाकटायनस्य तु परस्मैपदी । 'छदिरूर्जने' । घटादिः। तच्च बलनं प्राणनं वा । अत्र च 'धात्वन्तराभ्युपगमे दरतीत्येके' इत्यादिपूर्वोक्तरीत्यनुसारेण छदे-


१. ग्लेपनयोरिति पठित्वा 'ग्लेपनं दैन्यम्' इति माधवः २. इदं च षट्त्रिंशश्लोकव्याख्याने द्रष्टव्यम्


$ 'परिघाते' इति गपुस्तके पाठः + 'ग्लापनयोः' इति गपुस्तके पाठः