पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
पुरुषकारोपेतम् ।

  

'ञिक्ष्विदा अव्यक्ते शब्दे' । 'ञिक्ष्विदा स्नेहनमोचनयोः' ।
दिवादिः । मोहनयोरित्यपि बहुषु ग्रन्थेषु दृश्यते ॥

 ज्वलादेश्च तुदादेश्च सीदेद् विशरणादिके ।
 पद्यतेरर्थ आसीदेदासादयति चाङि यौ ॥ १०८ ॥

  षदॢ विशरणगत्यवसादनेषु' । तुदादावप्येवमेव धनपालः । विशरण इत्येव मैत्रेयरक्षितो दुर्गश्च । 'विशमृशणुदप्रवेशामर्शक्षेपेषु षदॢ विशरणार्थः' इति च श्लोकधातुपाठः । अवसादन इत्येव क्षीरस्वामिशाकटायनौ । अत्र च ज्वलादित्वात् सीदतीत्यर्थे साद इति पक्षे णः । अन्यदा$ सद इति पचाद्यजेव । तुदादित्वफलं तु स्वरभेदनुंविकल्पौ पूर्वोक्तावेव च द्रष्टव्यौ । 'आङः षद पद्यर्थे' । आङः परः षदधातुः पदेरर्थे गतावन्यत्रापि यथाप्रयोगं विकल्पेन णिचमुत्पादयतीत्यर्थः । आङीति चाङ्युपपदे । तत्र चासीदेदित्यन्याय्यं मन्यामहे । शदिसहचरितयोर्ज्व​लादितुदाद्योरेव सद्योः सीदादेशस्य न्याय्यत्वात् । तथा च तद्विधौ तावेव न्यासकृता पठितौ --- 'षदॢ विशरणगत्यवसादनेष्विति भौवादिकः । षदॢ विशरणे तौदादिकः' । इति ॥

 व्यक्तवाचि वदेद्वा णौ वादयेद् वदते वदेत् ।
 सन्देशे

  'वद व्यक्तायां वाचि' । 'वद सन्देशे' । स्वरितेत् । शा- कटायनस्य तु आत्मनेपदी । यदाह ---'वदि सन्देशवचने' इति ।


१. तत्र=तयोर्युजाद्युदाहरणयोः. २. आसदेदिति तु न्याय्यमित्यभिप्रायः.

३. साहचर्ये च धातुपाठे.


$ 'अन्यथा' इति गपुस्तके पाठः.