पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
पुरुषकारोपेतम् ।

 हिंसासंक्लेशयोर्मन्थेन्मथेन्मथ्नाति लोडने।

  माथि हिंसासंक्लेशयोः । क्षीरस्वामी तु मन्थेति पठित्वा मथ्यत इति चोदाहृत्य ‘मथि इति दौर्गाः । मन्थ्यत' इत्याह । 'मथे विलोटने' । 'मन्थ विलोटने' । क्रयादिः । भूवादौ चामुं मैत्रेय- रक्षितः पठति । चन्द्रदुर्गों च। तदा मन्थेदित्येतद्विलोटनेऽप्या- वृत्त्या कामं व्याख्यायताम् ॥

 कुथ्नाति कुन्थेत् संक्लेशे पूतीभावे तु कुथ्यति ॥ ९८॥

  'कुन्थ संक्लेशे' । क्रयादिः । संश्लेषणे इत्येके । तथा च 'संश्लेषणे संश्लेषणक्रियायाम्' इति क्षीरस्वामी । कुथि हिंसासं- क्लेशयोः । कुथ पूतिभावे । दिवादिः ॥

 प्रथते प्राथयत्येतत् प्रख्याने द्वितयं प्रथेः ।
 पृथेः पर्थयतीत्येतत् प्रक्षेपे णौ पदं विदुः ॥ ९९ ॥

  'प्रथ प्रख्याने' । आद्यो घटादिरनुदात्तेत् । तत्र च हेतु- माण्णिचि मित्त्वाध्द्रस्वे प्रथयति । अन्त्ये तु 'नान्ये मितः' इत्यमि- त्त्वान्न ह्रस्वः । 'प्रथ प्रक्षेपे' । केचित् पुनर्घटादौ च पृथिं पठ- न्ति । तथा च क्षीरस्वामी-“पृथु विस्तारे । पर्थति । 'प्रथेः षिवन् सम्प्रसारणं चेति प्रथेः सम्प्रसारणविधानादनार्षममुं मन्यन्ते" इति । 'यदप्रथयत् तत् पृथिव्यै पृथिवित्वम्' । इत्यस्य श्रौतस्य


१. 'कुथि पुथि लुथि मथि मान्थि हिंसासंक्लेशयोः' इत्यत्र पठितः । मान्थिस्तु न दृश्यते सिद्धान्तकौमुद्याम् . २. अनिदितामिति नलोपादिति भावः. १. श्रुतिसिद्धस्येत्यर्थः । उदाहृतं च वाक्यं तैत्तिरीयब्राह्मणे प्रथमाष्टके प्रथमप्रभे तृतीयानुवाकेऽस्ति.


'तथा' इति गपुस्तके पाठः,