पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
दैवं

इत्यस्य तु पतेदित्येवेति । विकल्पफलं पुनर्लुङादावपतीत् । पताञ्चकार । अपप्तत् । पपातेत्यादिषु द्रष्टव्यम् । तत्र च पतामित्यत्र 'कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्' इति वार्तिकेनाम् । अपप्त- दित्यत्र ऌदित्त्वादङ् । 'पतः पुम्' (७-४-१९) इति पुम् ॥

 यतते तु प्रयत्नार्थे निराकारे तु यातयेत्।।

  'यती प्रयत्ने' । 'यत निकारोपसंस्कारयोः' । निराकार इति तु पाठो दृश्यते । 'निराकारः परिभव' इति च क्षीरस्वामी । उ-. पस्कारोपसंस्कारयोः पुनः पाठकृतो विप्रवदन्ते । तथा चाख्यात- निघण्डुः- 'यत्ने प्रैषे निराकारे यातयेदप्युपस्कृतौ' इति । श्लोक- धातुपाठश्व – 'यत उपसंस्कारनिकारार्थः स निरश्च धान्यधन. वाची' इति ॥

 वर्तयेद् भाषणार्थे णौ वर्तने शपि वर्तते ॥ ९६ ॥

  वृतु भाषार्थः । 'वृतु वर्तने' । अनुदात्तेत् ॥

 ग्रथ्नातीति तु सन्दर्भे ग्रन्थयेद् ग्रन्थतीति यौ।
 कौटिल्ये ग्रन्थते ग्रन्थेर्ग्राथयेद् ग्रथति ग्रथेः ॥ ९७ ॥

  'ग्रन्थ सन्दर्भ'। क्रयादिः । 'अनिदिताम्' (६-४-२४)इति नलोपः । श्रन्थ ग्रन्थ सन्दर्भे' । 'ग्रथि कौटिल्ये' । अनुदात्तेत् । 'ग्रथ बन्धने' । युजादिः॥

५. आणिच्ककथादेर्भ्वादेश्च रूपे को विशेष इत्याकाङ्क्षायामाह -विकल्पफ- लमिति. २. परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः. ३. धान्यधनविषय- क्रियावाचीत्यर्थः । ऋणं निर्यातयतीति यथा. १. एतदनुवादे णौ वर्तयति भाषार्थे' इति पाठो दृश्यते १३१ श्लोकविवरणे.

'पाठका' इति गपुस्तके पाठः,