पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
दैवं

निर्वचनस्यानार्षपक्ष एवाञ्जस्यम् । अन्यथा हि यदपर्थयदित्येव निर्ब्रूयात् । सर्वथापि प्रथेर्घटादिपाठे तत्फलं 'घटादयः षित' इति षित्त्वादङि सति प्रथेति रूपं द्रष्टव्यम् । येऽमी घटादय आत्म- नेपदिनः पठितास्ते षिद्वद् भवन्तीत्यर्थः॥

 क्रथत्ययौ यौ हिंसायां क्राथयेत् क्रथते क्रथेत् ।

  'श्रथ श्लथ क्रथ क्लथ हिंसार्थाः ' । घटादयः । 'कथ हिं- सायाम्' । स्वरितेत् । शाकटायनस्य तु परस्मैपदी । अपरे पुन- रेनं न पठन्ति । तथा च 'जासिनिप्रहणनाटकाथपिषां हिंसा- याम्' (२-३-५६) इत्यत्र चोरस्योत्क्राथयतीत्यत्र निपातनादृद्धि- रिति वृत्तिः । सति हि चौरादिके 'नान्ये मित' इति मित्त्वनि- षेधादयत्नसिद्धा वृद्धिर्न निपातनसाध्या ॥

 पुथ्येत् पुन्थति हिंसार्थे भाषार्थे पोथयेदिति ॥ १० ॥

  'पुथ हिंसायाम्' । दिवादिः । पुथि हिंसासंक्लेशयोः । पुथ भाषार्थः ॥

 दौर्बल्ये श्रथयेत्प्रयत्नविषये स्याच्छ्राथयेन्मोक्षणे
 यौ तु श्राथयति श्रथत्यपि च वा णौ श्रन्थयेच्छ्रन्थति।
 सन्दर्भे श्नि विमोचनार्थविषये श्रथ्नात्यथ श्रन्थते
 शैथिल्ये-


१. अयुजादौ. २. स्वरितेत्त्वादेव णिजभावपक्षे पदद्वयमुदाहृतं 'क्रथते कथेद्' इति. ३. नाटसाहचर्याद्याख्यानाच्च निपातनं णिज्विषयम् , घटादिपा- ठस्तु मित्त्वेन 'चिण्णमुलोः' (६-४-७३) इति दीर्घार्थः, पाठे ह्रस्वोच्चारणं च

दीर्घणिचोरभावे श्रवणार्थमिति वृत्त्याशयः.