पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रविसुतशशिनौ गृहावसाने शशितनयः फलदस्तु सर्वकालम् ॥ १४ ॥ यस्य गोचरफलं प्रमाणतस्तस्य वेधफलमिष्यते नवा । मायशो न बहुसम्मतं विदः स्थूलमार्गफलदो हि गोचरः ॥ १५॥ अष्टवर्गपरिशाधितो ग्रहः श्रेष्टतां समनुवर्त्तते यदा । रिष्फगोऽपि हितदःमशश्यते योऽष्टार्गशुभदःसशोभनः॥ १६॥ जन्मकाले ग्रहक्रान्तराशेरारभ्य कल्पयेत् । शुभस्थानेषु विन्दुश्च रेखास्तदितरेषु च ।। १७ ।। द्वयोरन्योन्यविश्लेपादुत्तमाघममध्यमान् । कल्पयेच्चारमार्गेण तत्तद्राशिषु खेचरान् || १८ || अर्कः स्त्रस्माच्च भौमाच मन्दाच विचरन शुभः । प्रथमायसुहृन्मृत्यु - शैला ज्ञाधर्म्यवस्तुषु ॥ ११ ॥ शुक्रात्कामारिरिःफेषु जीवाट्यायारिधर्मसु । चन्द्राक्तयाज्ञारिलाभेषु विचरन शुभदो रविः ।। २० ॥ बुधादाज्ञात्रिलाभारि व्ययधी र्धमंगःशुभः | लग्नादाज्ञात्रिलाभारि सुहृद्रिःफेषु शोभनः ॥ २१ ॥ स्वस्मादृपचयेष्विन्दुरेकत्र मदनेऽपि च । लग्नादुपचयेष्वाराव सुतधीर्धमैवस्तुषु ॥ २२ ॥ रखेरस्ते च मृसौ च तथैवोपचयेषु च । शनेस्डययारिपुत्रेषु विचरन् शोभनःशशी ॥ २३ ॥ बुवात्प्रथमदि कुशैलसुहन्नाशायधीखिषु । जीवात्मथमकम्मगि धनलाभाष्टवन्धुषु । शुक्राद्धमैसुहृत्पुत्रः सहजायादिकर्मसु ॥ २४ ॥ भौमः स्वस्मात्स्ववन्ध्वाज्ञानाशाय प्रथमादिषु । १ खेचरात् / २ तेसु । ३ कमेव ।