पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८५ ) अनुलोमदशाभेदमेवं विद्याद्विचक्षणः । प्रतिलोमदशाभेदः संक्षेपात्कीर्यते ऽधुना ॥ १ ॥ दिवाजातस्य विज्ञेया भास्वतः प्रथमा दशा । निशाजस्य दशां चेन्दोरन्ते लग्नदशा भवेत् ॥ २ ॥ ततः परं दशाभेदं तत् कालवलिनां क्रमात् । उभयत्रापि च होरायां फलं तत्पतिसन्निभम् ॥ ३ ॥ दशाग्रहाणां तत्कालमित्रोदासीनविद्विषाम् । श्रेष्ठा मध्याश्च कष्टाश्च क्रमेण परिकीर्त्तिताः ॥ ४ ॥ स्वक्षेत्रोच्चांशभाजाञ्च मित्रराशिजुषामपि । | स्वोच्चाभिलापिणाञ्चापि दशा: श्रेष्ठा नचापरः ॥ ५ ॥ अनुलोमदशातुल्पमितरं समिष्यते । आयुद्दयविधानेषु सावनं मानमाचरेत् ॥ ६ ॥ दशारम्भे शशी श्रेष्टः सुहृद्वर्गगतोऽपि वा । निजवर्गगतोवापि स्वोच्च सेवितसत्तमः ॥ ७ ॥ योगे ऽघिमित्रयोरिष्टं पूर्णमसन्ततोऽन्यथा | योगेऽधिद्वेषिणोः पापं पूर्णमसन्ततोऽन्यथा ॥ ८ ॥ इति दशाविपाकादेशोनामन्त्रयोदशोऽध्यायः । चतुर्दशोऽध्यायः । 000 अतः परं प्रवक्ष्यामि ग्रहगोचरपूर्वकम् । विधिमिष्टकवर्गस्य वराहमिहिरोदितम् ॥ १ ॥ शीतांशुमृष्टमन्नं जनयति विचरज्जन्मिनां जन्मराशौ हर्ष दैसेयमन्त्री दिवसकरकुजौ शत्रुपक्षस्य वृद्धिम् । 3 १ निशाजातस्य ॥ २ उभत्रापि || ३ दैत्येन्द्र ॥