पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थापहारमनयादपमृत्युमुग्रं स्त्रीभिर्विरोधमपयानमथ स्वदेशात् ॥ २ ॥ चन्द्रामपद्य रविपुत्रदशां करोति कुष्टामयं मरणपीतिमरुह्यशाकम् । दैन्यं भुजङ्गभयमुग्रमनर्थजालं शास्त्रार्थवप्लवमनीतिपथावगाहम् ॥ ३ ॥ शुक्रो दिवाकरसुतस्य दशां प्रपन्नः सन्नीतिलाभमभयञ्च चतुष्पदाप्तिम् । दासौपबृंहण मनेकजनोपचार माचारहानिमपि तत्र करोति किञ्चित् ॥ ४ ॥ जीवः समेस समयं खररश्मिसूनो श्चिन्ताकुलञ्च हृदयं सदयामवस्थम् । स्वस्थानमात्रनिलयञ्च लयञ्च किश्चित् संचिन्तितस्य च विशेषमसौ विधत्ते ॥ ५ ॥ मन्दस्य कालमुपगम्य शशाङ्कपुत्रः शास्त्रोदयश्च बहुधान्यविशेषलाभम् नियोत्सवञ्च विविधममदोपयोगं योगञ्च वन्यमनुजैः सहसा विधत्ते ॥ ६ ॥ क्ष्मास्नुरर्कतनस्य दशासु धते मत्तममत्तहृदयं दयिताभिशापम् । कोपं निरर्थकमनर्थकरीञ्च वाचं बुद्धिं विपत्तिमसृगुद्द्भवरोगजातम् ॥ ७ ॥ इति शनिदशा ॥ १ दासोपवृंदण ॥ २ जनोप्रचार ||