पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धिञ्च साधुममयेषु महारतिश्च ॥ ३ ॥ अङ्गारकेन सहितो भृगुनन्दनोऽसौ माध्यस्थ्यमावहति चेतसि सुस्थितिञ्च । पीडालवंञ्च निजवन्धुजनेषु रोषं शान्तिञ्च शान्तमनुजेन समागमञ्च ॥ ४ ॥ वक्रस्य कालमुपगम्य गुरुः करोति सम्पत्तिमिष्टमनुजेषु महोदयञ्च । सामन्तभूपसचिवैः सह मित्रताञ्च दानादिधर्मनियताञ्च मतिं करोति ॥ ५ ॥ प्राप्तो दशां शशिसुतः खलु लोहितस्य व्यालेभवन्यमृगशङ्करजं भगञ्च । विद्रद्विरोधमुदरामयपीड़नश्च वित्तक्षयञ्च विदधाति चिराय पुंसः ॥ ६ ॥ भौमस्य कालमुपगम्य शनैश्चरोऽसौ योगं तपस्त्रिमनुजैः कुरुते क्षणेन । द्यूतादिदेवनावेधिञ्च मुहुर्मुदञ्च सौन्दर्यहानिमपि पादगतञ्च रोगम् ॥ ७ ॥ इति कुजदशा || - मन्दो निजं समयमेल करोति सद्यः पीड़ां द्विजन्मनृपमित्र समुद्रवाञ्च | व्याधि सुतार्थविलयच्च पदावभङ्गं निःशंसयं प्रकृतिदासजनारिभीतिम् ॥ १ ॥ भानुः शनैश्वरदशां प्रतिपद्य धत्ते चोराद्वयं व्यसनमिष्टजनस्य शोकम् ।