पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवो बुधेन सह सङ्गतिमेत्य सय- हानि विभूतिविपदञ्च तटच्युतिञ्च | भार्ग्याविषादमनिशं निशि सुतिहानि नानाभयञ्च कुरुते कुरुते रतिश्च ॥ ५ ॥ भौमो बुधस्य समये विदधाति पुंसः क्रूरैः समागममनेः सुलभोपचारम् । सञ्चारणञ्च बहुशोभयमायुदेभ्यो मौर्खञ्च सौख्यविलयञ्च मुहुः करोति ॥ ६ ॥ पगुर्बुधेन सहितः कुरुते नरस्य शस्त्राग्निभीतिमथदासजनोपघातम् । आर्त्ति क्षुधाञ्च वपुषः शतधामयञ्च सञ्चिन्तितार्थविलयञ्च महोदरञ्च ॥ ७ ॥ इति बुधदशा । -FAC भौमः स्वकीयसमये ज्वरशस्त्रवह्नि- दाहत्रणानि निपुणेन जनेन वैरम् । स्वस्थानभङ्गमरणव्यसनं विधत्ते पितञ्च रक्तमपि कोपयति प्रसह्य ॥ १ ॥ सूर्य्य: कुजेन सह सङ्गममाप्य कुर्य्या गार्ग्याञ्च पुत्रविभवञ्च महोदयञ्च । तेजः प्रतापमवनीशसमागमञ्च मन्दाग्निताञ्च मरुता जनितश्च रोगम् ॥ २ ॥ सङ्गसमेस शशभृद्धरणीसुतेन बालाङ्गनाजनसमागममर्थलाभम् । पुत्रोद्भवञ्च विभवं यशसः महद्धिं