पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८४ ) सच्छत्रचामरगुणं युवराजलक्ष्मी मक्षीणभूतिविभवञ्च शिरोरुजञ्च ॥ ६ ॥ सौरिर्गुरुं समुपगम्य करोति रोषं योग तपस्विमनुजैरकुलोद्भवैश्च । वाणिज्यमुष्टविषये विषयापकीतिं मूर्त्तिव्रणञ्च सहसा मशमञ्च तस्य ॥ ७ ॥ इति जीवदशा । सौम्यः स्वकालमुपगम्य बुधोपसेवा मर्थस्य लाभमुपदर्श्यच तस्य हानिम् । सौख्यं स्वबन्धुकलहञ्चरणे जयञ्च मन्त्रौषधाध्ययनलाभ विधिचं धत्ते ॥ १ ॥ भानुः शशाङ्कतनयस्य दशां मपन्नः स्वास्थ्यं धियं मशमयोगरतिञ्च भूयः । यात्रां महाधनकरीच कलत्रलाभं किञ्चित करोति जठरामयपीडनच ॥ २ ॥ 1 चन्द्रः स्वपुत्रसमये समयच्युतिञ्च तोयमपातपतनेन भयञ्च भूयः । अंशैकहा निमनुजीविजनोपघातं पत्नीविनाशविपदञ्च मुहुः करोति ॥ ३ ॥ सौम्येनसङ्गममुपेत्य सितः करोति देवद्रिजन्मयतिपूजनलोलचित्तम् । स्त्रीभ्यां स्वलाभमधिकं नयनामयञ्च पुत्रेण केनचिदनर्थविधिञ्च भूयः ॥ ४ ॥ १ स्वास्थ्यन्धियः | २ पत्ती ।