पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८३ ) इति शुक्रदशा । जीवःस्वदायमुपगम्य नृपप्रसादं स्थानान्तरञ्च बहुवित्तसमागमञ्च | यानादिलाभमहितस्य जनस्य हानि रोगक्षयञ्च कफरोगसमुद्भवञ्च ॥ १ ॥ जैवों दशामुपगतो दिनकृत्करोति रोगक्षयं 'रिपुभयञ्च महाप्रतापम् । मानं परिभ्रमणमुज्ज्वलमित्रयोगं द्रव्यञ्च भूसमुदितं क्षयमाशु तस्य ॥ २ ॥ इन्दुः समेत्य गुरुणा गुरु गौरवञ्च गौराङ्गनाज़नसमागममिष्टलाभम् । क्षेत्रस्य हानिमलसप्रकृतिश्च किञ्चित् सञ्चारणञ्च बहुशः कुरुते मुदञ्च ॥ ३ ॥ शुक्रः सुरस्य समयं प्रतिपद्य धत्ते पितज्वरं जठररोगमनेकधा च । भूतेभयं विभवहानिमनर्थबुद्धि बुद्धिक्षयञ्च सह वन्धुजनेन वैरम् ॥ ४ ॥ कुर्य्याद्बुधः सुरगुरोः समयं प्रपन्नः क्लेशच पाशयमनञ्च महामयञ्च | स्थानच्युतिञ्च परिलुप्ति महीप्सितानां शस्त्रत्रणञ्च मरणव्यसनावसानम् ॥ ५॥ भौमः सुरेन्द्रगुरुणा सहितो हितानि सम्पत्तिमुत्तमगुणञ्च मुदं करोति । १ रिपुहानिञ्च ॥