पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत्वारिंशतकलायुक्तं भागद्वितयमङ्गुलम् | विद्यादानेन मानेन मध्यमष्टादशाङ्गुलम् ॥ २३ ॥ पार्श्वयोर्मध्यसूत्रस्य सन्धिमार्गस्त्रयन्त्रयम | मसेकं व्यङ्ग्गुलस्थे च खण्डमेकं नवाङ्गुलम ॥ २४ ॥ मेषादित्रितये संज्ञा मध्यसूत्रादुदीऋषु । मीनादित्रितयनामानि विलोमाद्याम्यतस्त्रिषु ॥ २५ ॥ कोणतो विनिवृत्तिः स्यादयनं नाम भास्वतः । लङ्घनं मध्यसूत्रस्य गोलोच्चलनमुच्यते ॥ २६ ॥ विधाय पद्मिनीबन्धोः स्फुठं विघटिकामयम् । भाजयेत् ज्ञानगम्भीरैर्यदिनैकोपि लभ्यते ॥ २७ ॥ उत्तरायनगोमध्यसूत्रादन्तम् प्रवर्त्तते । यद्येको लभ्यते भानुस्तदा याम्यायनोन्मुखः ॥ २८ ॥ द्वितयं यदि लभ्येत शेषस्तत्र च नास्ति चेत् । मध्यसूत्रे स्थितः शेषे विद्यतेऽब्दे बहिर्गतम् ॥ २९ ॥ त्रितयं यदिलभ्येत तदायाम्याय नोन्मुखम् । यदि चत्वारि लभ्यन्ते मध्यसूत्रे पुनःस्थितम् ॥ ३० ॥ चतुर्विकल्पे शून्ये द्वे क्रमाच्छेषं विवर्धयेत् । विधिना बन्धुना नालैबींजैस्तेनैव भाजयेत् ॥ ३१ ॥ लब्धं दिनादिकं भानोस्तत्तव सूत्रादपेयुषः । पूर्वोक्तानेव ताञ् शेपान्नानासूत्रैर्विभाजयेत् ॥ ३२ ॥ सम्माप्तमगुलं भानोस्तत्तत्सूत्रादपेयुषः । स्वदेशोदयरेखान्तु ज्ञातुकामो विचक्षणः ॥ ३३ ॥ विषुवड्यगुड्लं भक्त्वा शम्भुना लब्धमङ्गुलम् । स्वदेशरेखाभूमध्ये रेखयोरन्तरम्भवेत् ॥ ३४ ॥ १ लघनम् ॥ २ पर्थ्यादि || ३ शून्यद्वये ॥ ४ मध्यरेच्चयोरन्तरम् ||