पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदेशोदयरेखायामुदयत्यंशुमालिनि । मध्यच्छाया च न भवेद् दृष्टिच्छाया चे सम्भेवत् ॥ ३५ ॥ विषुवद्रयङ्गुलं ज्ञानसूत्राभ्यस्तम्भवेत्तिधा । काञ्चनैर्विशदैश्चाथ कन्दर्पैश्च विभाजयेत् ॥ ३६ ॥ लब्धं चरार्धवाक्यानि मेषादीनां क्रमोत्क्रमात् । लङ्काकोंदयवाक्येषु तेषामृणधनक्रिया ॥ १७ ॥ अमासशाषणं मांससूनुजिच्छापणार्थदम् । लङ्कादयवाक्यानि मेषादीनां क्रमोदक्रमात् ॥ ३८ ॥ क्रमोत्क्रमेण संस्थाप्य वाक्यान्येतानि कोविदः । ततश्चरार्द्धवाक्यानि शोधयेत् प्रथमत्रये ॥ ३९ ॥ पश्चिमत्रितये तानि व्युत्क्रमेण च योजयेत् । नाम्ना संस्कृत वाक्यानि तानि विद्याद्विचक्षणः ॥४०॥ मेषादिषट्के क्रमशो व्युत्क्रमेण तुलादिषु । असुरैस्तानि विभजे ल्लब्धा लग्नविनाडिका ॥ ४१ ॥ ततो धनेन लब्धास्तु मेषाद्यंशकभुक्तयः । मध्याह्नार्कस्फुटं ज्ञात्वा गोलं कुर्य्यात्पदाक्रयाम ॥ ४२ ॥ सुपादताराद्वन्द्वस्य वाक्यमेकं समुद्धरेत् । चरार्धवाक्येनैतेषां सङ्ख्यया मूर्ध्नि पूरयेत् ॥ ४३ ॥ शेषन्तु विकलीकृस परवाक्येन वर्द्धयेत् । विभज्य ज्ञानपादेन लब्धं चोपरि निक्षिपेत् ॥ ४४ ॥ नानानागवरेतञ्च याम्यदक्षिणगोलयोः । योजयेच्छोधयेच्चाथ यथाविधि विचक्षणः ॥ ४५ ॥ ततो ज्ञानप्रतापाप्तं दिनार्घघटिकादिकम् । तञ्चनागात् समुद्धृय निशा स्थितमिष्यते ॥ ४६ ।। १ शंकवे ॥ २ आण ॥ ३ र्घषनै ॥ ४ मध्यान्मार्क स्फुटम् ।