पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( मध्यार्कस्योजपादन्तु विलितीकस कोविदः । दिनार्धविकलाप्राप्तं घटिकादि विनिर्द्दिशेत् ॥ ४६ ॥ नवेनाभ्यस्य तत्सर्व्व नीचाप्तमुपरि क्षिपेत् । लीनोनोर्ध्वस्थमाहस लब्धव्यङ्गुलमिष्यते ॥ ४७ ॥ विसुवचङ्गुलेनाथ दक्षिणोत्तरगोलयोः । न योज्यं शोध्यन्न चेच्छोध्यं व्यक्तये न विशोधयेत् ॥४८॥ मध्यं च्छायामिमां विद्यादुदयार्कस्फुटं पुनः । विलिप्तीकृस तत्रापि ज्ञानपादहृतं वृथा ॥ ४९ ॥ शेषन्तु तत्र सन्ताड्य निजोदयविलिप्तिभिः | ज्ञानपादैः समाहस लब्धभुक्तिविनाडिका ॥१०॥ विशोध्य स्वोदये शेषमभुक्तं विकलां वदेव । सिंप्तलनान्तरं तस्य मिष्टकालञ्च साधयेत् ॥ ५१ ॥ अर्कभुक्ति हतायातलग्नसंख्या भवेत् ततः । वीराङ्गेण विभज्याप्ता विलिप्ताश्च विशोधयेत् ॥ ५२ ॥ . पूर्व्वापराह्णयोर्यातगन्तव्यविकलांगणे । दिनार्धविकलांशुद्धयशेषं सप्तेपदस्य चेत् ॥ ५३ ॥ भाग्येन वर्द्धयेद् गोपैः षडर्द्धचरणस्य चेत् । पैट्पदस्यान्तराज्येन वर्धयित्वा स्थितं पुनः ॥ १४ ॥ क्रमेण यांतयातव्यविकलाभिर्विभाजयेत् । अगुलादि ततो लब्धं मध्यच्छायामिह क्षिपेत् ॥ ५५ ॥ अर्द्धकृतं तदेकश्च तस्य तस्य पदम्भवेत् । पदं रत्नहतं तत् तद् गुणाकारेण संयुतम् ॥ ५६ ॥ पूर्व्वापराहूयोर्मध्यच्छायाविरहितं ततः । नीचेन वर्धयेदेष भागहारो भविष्यति ॥ ५७ ॥ १ च | २ स्था | ३ शाण | ४ लब्धं । ५ चिप्ता लग्नान्तरन्तस्य । ६ वट्पदस्यन्तु । २