पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टनुद् धाननुद् दाननुद् बीननुद् भिन्ननुत् किन्नुना तत्फला तिक्रमात् ॥ ११ ॥ चातुरीशचतुर्भुक्तिस्तत्रान्तज्याफलं न्यसेत् । मध्ययोः पादयोर्जह्यादन्ययोः स स्फुटो भवेत् ॥ १२ ॥ स्फुटन्तु विकलीकृस ज्ञानपादेन भाजयेत् । लब्धंराशिर्भषेच्छिष्टमतीतमिति निर्दिशेत् ॥ १३ ॥ अतीतश्चेदतस्यक्ता शेषं विद्यादनागतम् | उभयं स्फुटभोगेन भाजयित्वा तनो हृतम् ॥ १४ ॥ अतीतमनतीतञ्च दिवसादि विनिर्दिशेत् । ज्ञानपादावशिष्टं यत्मागतीतमुदाहृतम् ।। १५ ।। तच्चेदल्पतरं भुक्ते सङ्क्रमः स्यात्तदानतैः । हुत्वा भोगहृतं नीतिशुद्धसङ्क्रमनाडिका ॥ १६ ॥ अस्ति लङ्केतिविख्याता राजधानी सुरद्विषाम् । भर्तुःसामध्यरेखाया स्थलस्य च जलस्यच ॥ १७ ॥ सैव सीमा भवेत्मानोईक्षिणोत्तरगोलयोः । न तत्रविषुवन्मध्यश्छाया स्याद् गोलयोन्तरः ॥ १८ ॥ योजने नोनषष्ठ्यंशे नैकव्यङ्ग्गुलमेधते । विषुवव्यङ्ग्गुलं नाम तदेतत्परिकीर्तितम् ॥ १९ ॥ आश्विनीतारकाङ्गच्छेदुत्तरस्यां दिवाकरः । दक्षिणस्यान्तु सङ्क्रान्तमन्तरालं दिवांशकम् ॥ २० ॥ विसुवन्मण्डलादूर्ध्वमधस्ताद्याम्यसौम्ययोः | चतुर्विंशतिभागान्ते प्रवृत्तमपमण्डलम् ॥ २१ ॥ ताराग्रहेन्दुपातार्का भ्रमन्य स्मिस्तमन्तरम् । क्षितिच्छाया च तत्रैवं मण्डलार्धे विवस्वतः ॥ २२ ॥ १ श्राप || २ तारा महेन्दुसुपातार्क ॥