पृष्ठम्:दैवज्ञकामधेनुः (प्राचीनज्योतिषग्रन्थः).pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दलिता नीचपादास्ते परमोच्चेषु वत्सरः । उच्चस्थस्य रवेर्दायः सरदामेकविंशतिः ॥ ४२ ॥ एकैकोनात् त्वतः शेषग्रहाणां दाय उच्यते ॥ ४३ ॥ उच्चतो नीचतो वापि शोध्यं वाक्षेप्यमेव वा । निश्चिस तत्र राश्यंशात् सवर्णान् लग्नवर्द्धितान् ॥ ४३ ॥ नवेन भाजयित्वाथ ताराद्यं तद्ग्रहस्फुटे । योजयेच्छोषयेद्वासौ कर्म्मभूमिस्फुटो भवेत् ॥ ४४ ॥ आरोहतः स्फुटं कृत्वा विलिप्तां नीचरश्मिभिः | समं गुण्यतपः प्राप्तमसुरैदिवसादिकम् ॥ ४५ ॥ उच्चभूष्टे तथा लब्धमुच्चदायाद्विशोधयेत् । लग्ने परमदायन्तु नववर्षाणि निर्दिशेत् ॥ ४६ ।। लग्नस्फुटंबीलप्सासु ज्ञानपादाहृतं वृथा । झात्वावशेषराश्यर्द्धं पृथक् कृत्वा दिवाहृतम् ॥ ४७ ॥ ततस्तन्नीचपाठेन लब्धा वर्षादयः स्मृताः । समभे वर्धते पूर्वी पश्चा परिहीयते ॥ ४८ || ओजे विपर्ययात् साध्यं होरादायो भवेदयम् । अयमेव विनिर्दिष्टो रिष्टदोषाय सूरिभिः ॥ ४९ ॥ अनुलोमायुपं पिण्डमेवमानीय बुद्धिमान् । यथोक्तविपरीतेन प्रतिलोमायुरानयेत् || ५० || तत्कालिकविभागेन क्रमानीचोच्चवेश्मनोः । अभुक्तेन च भुक्तेन प्रतिलोमायुराहृतम् ॥ ५१ ॥ अनुलोमायुरानेयं निसर्गबलिनां ऋमात् । प्रतिलोमायुरानेयं तत्कालवलिभि ग्रॅहैः ॥ ५२ ॥ अनुलोमायु विज्ञेयं मित्रादित्वान्निसर्गतः । १ विलिप्तानां | २ चाण । ३ हनम् | ४ क्षैत्यम् ।